________________
चंद्रिकासमेतः
लेक्लिष्टोऽध्ययनश्रमवान्मुरारिनामाकविर्नितरामतिशयेनजानीते । अत्रदृष्टांतमाह।वा नररूपैर्भटैर्योदृभिरब्धिर्लंघितएवकिं खस्याब्धे गंभीरतांपातालपर्यंत निमग्रापीवरास्थूला तनुर्यस्यैवंविधोमन्थाचलो मंदराद्रिरेवजानातीति । दृष्टान्तोदाहणत्वासंगतिमाशंकते नन्विति । वाक्ययेोरितिसप्तमी । एकधर्मइत्यनंतरं शब्दभेदेन निर्दिष्टइतिशेषः । सा गरस्याधस्तनोयोऽवधिरितिगंभीरता पदार्थकथनं संस्पर्शस्तुलक्षणयाजानात्यर्थइतिबो ध्यम्। तथाचधर्मभेदान्नप्रतिवस्तूपमा किंतुसारस्वतसारज्ञानसागराधस्तलावधिसंस्पर्श योर्विवप्रतिबिंबभावादृष्टांतालंकार एवेसाशयः । 'वर्षसंबुदमा लेयं वर्षयेपाचशर्वरी' इति वत्पदावृत्तिदीपकंस्यादिसाशंक्य समाधत्ते। अत्रेति । पूर्ववदर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेतिदृष्टांतःप्रस्तुताप्रस्तुतविषयः । पदावृत्तिस्तु तदन्यतरमात्रविषयेसर्थः । यद्यप्यत्रात्मनेपदपरस्मैपद भेदेन पद भेदान्नपदावृत्तिशंकोचिता तथापिपाठपरिवर्तनेन पदाभेदेपिनपदावृत्तेरयं विषयइतिबोधयितुमेतदुक्तं । अयंदृष्टांतः । कृतंचेतिनृपंप्रति मंत्रिणउक्तिः । हेराजन्त्रयामनो गर्वस्याभिमुखंनतुगर्वितं कृतंच । किमन्यदपेक्षितमि तिशेषः । एवंशस्त्रप्रयोगादिकं विनानोऽस्माकं द्विषः शत्रवोनिहताश्वनतुनिहनिष्यंते । अंशुमान्सूर्यो यावदुदयाद्रेमलितांशिरोलंकारतांनायातितावदेवतमांसितिष्ठति तस्मि स्तुतथाभूतेन तिष्ठतीतिदृष्टांतः । अत्रमनोगर्वाभिमुखीकरणवैरिननयोरंशुमदुदयाचल मस्तकानागमनतमःस्थियोश्वयथाक्रमंवैधर्म्येण बिंबप्रतिबिंब भावः ॥ ५१ ॥ इसलंकार चंद्रिकायांदृष्टांतालंकारप्रकरणम् ॥
वाक्यार्थयोः सदृशयोरैक्यारोपोनिदर्शना ॥ य हातुः सौम्यतासेयं पूर्णैदोरकलंकता ॥ ५२ ॥ अत्रदातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेदोरकलंकत्व स्योपमानवाक्यार्थस्ययत्तद्र्यामैक्यारोपः । यथावा ॥ अरण्य रुदितंकृतंशवशरीरमुद्वर्तितंस्थलेऽन्नमवरोपितं सुचिरमूखरेव र्षितं । श्वपुच्छमवनामितंबधिरकर्णजापः कृतो धृतोंधमुखद र्पणोयद बुधोजनः सेवितः ॥ अत्राबुधजनसेवायाअरण्यरोद दनादीनांयत्तद्भयामैक्यारोपः ॥ ५२ ॥
५९
निदर्शनांलक्षयति ॥ वाक्यार्थयोरिति । सदृशवाक्यार्थ संबंधीय ऐक्यारोपः । उपमे यवाक्यार्थेउपमानवाक्यार्थाभेदारोपइतियावत् । यद्दातुरिति । दातुःसौम्यतेतियत् इ तिसामान्येनपुंसकं । सेयमितिविधेयाभिप्रायकं स्त्रीलिंगं । यत्तद्भयमिति । यद्यपिमुख चंद्रइतिवद्दातुः सौम्यता पूर्णे दोर कलंक तेसे तावताप्यैक्यारोपः संभवति तथापियत्तद्भयां