________________
५८
कुवलयानंदः
व्यतिरेकमा क्षिपतिकिंत्वप्रकृतवाक्यार्थ एवेतिदिक् ॥ ५० ॥ इसलंकारचंद्रिकायांप्र
तिवस्तूपमालंकारप्रकरणम् ॥
चेद्विंबप्रतिबिंबत्वंदृष्टांतस्तदलंकृतिः ॥ त्वमे
वकीर्तिमान्राजन्विधुरेवहिकांतिमान् ॥ ५१ ॥
यत्रोपमानोपमेयवाक्ययोर्भिन्नावेवधर्मौविंत्र प्रतिबिंबभावेन निर्दिष्टयैतत्रदृष्टांतः । त्वमेव कीर्तिमानित्यत्रकीर्तिकां त्योर्बिंब प्रतिबिंबभावः । यथावा ॥ कामंनृपाः संतिसहस्रशोन्येराज न्वतमाहुरनेनभूमिं ॥ नक्षत्रताराग्रहसंकुलापिज्योतिष्मती चंद्रमसैवरात्रिः ॥ यथावा ॥ देवींवाचमुपासतेहिबहवः सारं तुसारस्वतंजानीतेनितरामसौ गुरुकुलतिष्टोमुरारिः कविः ॥ अब्धिर्लेघितएववानरभटैः किंत्वस्यगम्भीरतामापातालनिम नपीवरतनुर्जानातिमथाचलः॥ नन्वत्रोपमानोपमेयवाक्ययो र्ज्ञानमेकएवधर्मइतिप्रतिवस्तूपमायुक्ता । मैवा अचेतनेमंथाच
लेज्ञानस्यबाधितत्वेनतत्रजानातीत्यनेनसागराधस्तलावधि संस्पर्शमात्रस्यविवक्षितत्वात् । अत्रोदाहरणेपदावृत्तिदीपका द्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतोद्रष्टव्यः । वैधर्म्येणा प्ययं दृश्यते । कृतंचगर्वाभिमुखं मनस्त्वयाकिमन्यदेवनिहता श्वनोद्विषः ॥ तमांसितिष्ठतिहितावदंशुमान्न यावदायात्युदया द्विमौलिताम् ॥ ५१ ॥
दृष्टांतालंकारंलक्षयति || चेदिति । वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्याहार्यं । तदितितदेवर्थकं अर्थतोव्याचष्टे । यत्रेति । यत्रकाव्ये । तथाचोपमानोपमेयवाक्या र्थघटक धर्मयोबिंबप्रतिबिंबभावोदृष्टांतइतिलक्षणम् । काममिति । अनेनप्रकृतराजवि शेषेणराजन्वतीं शोभनराजवतीम् राजन्वान्सौराज्येइतिनिपातः । नक्षत्राण्यश्विन्या दीनिसप्तविंशतिः तारास्तदितराः गोबलीवर्दन्यायात् ग्रहाभौमादयः संकुलाव्याप्ता ज्योतिष्मतीति प्राशस्त्येमतुप् । अत्रराजन्वतीज्योतिष्मतीत्यनयोबिंबप्रतिबिंबभावः पूर्वोदाहरणे कीर्तिकांसोर्विबप्रतिबिंबभावप्रयोजकं मनोहारित्वरूपंसा दृश्यमार्थमिहतुरा जज्योतिषोःप्राशस्त्यरूपंतच्छाब्द मितिभेदः । देवीमिति । देवीं वाचंसरखतीं बहवउपा सतेहिसेवंतएव हिशब्दस्यैवकारार्थत्वात् । तुपरंसरखतीसंबंधिसारं असौप्रसिद्धोगुरुकु