________________
चंद्रिका समेतः
रूपकातिशयोक्तिःस्यान्निगीर्याध्यवसानतः । पश्य नीलोत्पलद्वंद्वान्निःसरतिशिताः शराः ॥ ३५ ॥ विषयस्यस्वशब्देनोल्लेखनंविषयिवाचकेनैवशब्देन ग्रहणंविष
४१
यनिगरणं तत्पूर्वकंविषयस्यविषयीरूपतयाध्यवसानमाहार्य निश्चयस्तस्मिन्सतिरूपकातिशयोक्तिः । यथा नीलोत्पलशर शब्दाभ्यांलोचनयोः कटाक्षाणांचग्रहणपूर्वकंतद्रूपताध्यवसा नम् । यथावा ॥ वापीकापिस्फुरतिगगने तत्परंसूक्ष्मपद्यासो पानालीमधिगतवती कांचनी मैंद्रनीली ॥ अग्रेशैलौसुकृति सुगमौचंदनछन्नदेशतत्रत्याना॑सुलभममृतंसन्निधानात्सुधां शोः ॥ अत्रवाप्यादिशब्दैर्नाभिप्रभृतयोनिगीर्णाः ॥
अतिशयोक्तिलक्षयति ॥ रूपकातिशयोक्तिरिति । ग्रहणमुपस्थापनं । विषयिरूप सयेति । विषयिणोरूपमस्यतस्यभावस्तत्तातयेत्यर्थः । रूपंचाभेदताद्रूष्यान्यतरत् । तस्मि न्सतीति । सप्तमीसमर्थात्त सिरियभिप्रायेण । एवं चानुपात्तविषयधर्मिकाहार्य निश्चयवि षयीभूतंविषय्य भेदताद्रूप्यान्यतरद्रूपका तिशयोक्तिरितिलक्षणंबोध्यं । अत्ररूपकवार णायानुपात्तेति । अयमेव च रूपकाद स्यांविशेषोऽतिशयइत्युच्यते । भ्रांतिवारणायाहा र्येति । उत्प्रेक्षावारणाय निश्चयेति । नीलोत्पलेति । अत्रनीलोत्पलपदात्साध्यवसानल क्षणयाशक्यलक्ष्योभयानुगतकांतिविशेष।दि पुरस्कारेणोपस्थितेकामिनीनयनेशत्तयुप स्थितस्यनीलोत्पलखविशिष्टस्याभेदसंसर्गेणान्वयः । शक्तयुपस्थितयोः कृतीष्टसाधन तयोरिवशक्तिलक्षणाभ्यामुपस्थितयोरप्येक पदार्थ योस्तात्पर्यवशेनान्वयांगीकारेबाघ काभावात् । एवंच नीलोत्पलाभिन्नकां तिविशेषवद्वंद्व। दितिबोधा दियमभेदातिशयो क्तिरित्युच्यते । नयैवंसतिरूपकादवैलक्षण्यमितिवाच्यम् । रूपकेविषयिभेदव्याप्य स्यविषयतावच्छेदकस्यभानेनवैलक्षण्यस्यस्फुटत्वात् । यदात्यभेद भानेनतात्पर्यं किंतुभे दभानेतद।कांतिविशेषादिरूपताद्रूप्यस्यैवबोधात्ताद्रूप्यातिशयोक्तिर्वक्ष्यतेइ तिबोध्यं । वापीति । मध्यभागमारभ्य मुखपर्यंत नायिकांगवर्णनमिदम् । गगनेसूक्ष्मतयातद्वद्दु लक्ष्येमध्येकाप्यनिर्वचनीय शोभावापीतद्वद्वं भीरानाभिःस्फुरतिशोभते तत्परंतदूर्ध्वभागे ऐन्द्रनीलीइन्द्रनीलघटितासूक्ष्मपचासरणिस्तद्वच्छ्यामारोमावलिः स्फुरतीत्यनुषज्यते । किंभूता कांचननिर्मितांसोपानपंक्ति तत्सदृशीं त्रिवलीमधिगतवतीप्राप्तवती । तथाअ प्रेतदृर्ध्वदेशे शैलीतद्वत्तुंगविशालौ कुचौ स्फुरतइतिविभक्तिपरिणामेनसंबध्यते । कीदृ