SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३८ कुवलयानदंः यायोगादितिध्येयं । एवंवन्मुखाभेच्छयेससिद्धविषयहेतूत्पेक्षायामपिबोध्यं । विषय सिद्धबासिद्धवाभ्यांबोधेविशेषाभावात् । मध्यःकिमियादिफलोत्प्रेक्षास्थलेफलंचतु र्थ्यर्थः । तत्रचाभेदेनप्रकृयान्वयःपूर्ववत् । फलस्यचप्रयोजकखसंसर्गेणबद्धखेतड्डा रकेणतेनैवबदे॒वान्वयस्तत्तादात्म्यसंसर्गकसंभावनायामध्येविषयतया । एवंचकुचध रणाभिन्नफलककनकदामकरणकवद्धखाश्रयसंभावनाविषयोमध्यइतिबोधः। एवंप्रा योजमिसादावपिफलंतुमुनोर्थइतिपूर्ववदेवबोधः। फलोत्प्रेक्षाखंचोपदर्शितरीयोपपाद नीयमितिबहुवक्तव्येपिविस्तरभयादुपरम्यते । अनेनैवक्रमेणोदाहरणांतराणि॥बालेंदुवक्राण्यावकासभावा द्वभुःपलाशान्यतिलोहितानि।सद्योवसंतेनसमागतानांनखक्ष तानववनस्थलीनां ॥अत्रपलाशकुसुमानांवक्रत्वलोहितत्वे नसंबंधेननिमित्तेनसद्यःकृतनखक्षततादात्म्यसंभावनाउक्त विषयास्वरूपोत्प्रेक्षा । पूर्वोदाहरणेनिमित्तभूतधर्मसंबंधोग म्यइहतूपात्तइतिभेदः । नन्विवशब्दस्यसादृश्यपरत्वेनप्र सिद्धतरत्वादुपमैवास्तु।लिंपतीवेत्युदाहरणेलेपनकर्तरुपमा नत्वार्हस्यक्रियोपसर्जनत्ववदिहनखक्षतानामन्योपसर्जनत्व स्योपमाबाधकस्याभावात्।उच्यते। उपमायायत्रक्वचित्स्थि तैरपिनखक्षतैःसहवक्तुंशक्यतयावसंतनायकसमागतवनस्थ लीसंबंधित्वस्यविशेषणस्यानपेक्षितत्वादिहतदुपादानंपला शकुसुमानांनखक्षततादात्म्यसंभावनायामिवशब्दमवस्थाप यति। तथात्वएवतद्विशेषणसाफल्यात्। अस्तिचसंभावनाया मिवशब्दोदूरेतिष्ठन्देवदत्तइवाभातीति॥ पिनष्टीवतरंगाग्रैः समुद्रःफेनचंदनम् ॥ तदादायकरौरंदुर्लिपतीवदिगंगनाः॥ अत्रतरंगाप्रैःफेनचंदनस्यप्रेरणंपेषणतयोत्प्रेक्ष्यते । समुद्रादु स्थितस्यचन्द्रस्यप्रथमंसमुद्रपूरप्रसूतानांकराणांदिक्षुव्यापन चसमुद्रोपांतफेनचंदनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्रक मेणसमुद्रप्रांतगतफेनचंदनपुंजीभवनंदिशांधवलीकरणंचनि मित्तमितिफेनचंदनप्रेरणकिरणव्यापनयोर्विषययोरनुपादाना
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy