SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः तिव्याप्तिवारणायमयुक्तांतं । 'सर्वातिशायिसौंदर्यशंकेसत्यवतोमुखं ॥ येनसामृगशा वाक्षीसावित्रीतरलीकृता॥' इसादावतिप्रसंगवारणायतनिष्ठेतिसंभाव्यमानवृत्तित्वंध मविशेषणं । तत्रसावित्रीतरलीकारकखरूपोधर्मोमुखवृत्तिर्नतुसंभाव्यमानवृत्तिरितिना तिप्रसंगइतिदिक । वस्तुहेतुफलात्मतावस्तुहेतुफलतादात्म्यम् । ननुसंबंधांतरेणोत्मे क्षायाअसंग्रहइतिचेन्न । सर्वत्राभेदेनैवोत्प्रेक्षणमितिप्राचीनमतानुसारेणेत्थमभिधाना देतत्सूचनायैवलक्षणेऽत्रचतादात्म्योपादानमिति । नन्वलंकारसर्वस्वकारादिभिःखरू पोत्पेक्षेतिव्यवहृतायास्तुरीयायाअपिसत्त्वात्रिविधेययुक्तमिसाशंक्याहअत्रेति । आ सांमध्येयाप्रथमावस्तूत्प्रेक्षासैवखरूपोत्प्रेक्षेत्युच्यतइयर्थः । रजनीमुखेसर्वत्रविसृत्वरस्यतमसोनेल्यदृष्टिप्रतिरोधकत्वादिधर्मसम्बन्धेनगम्यमानेननिमत्तेनसद्यःप्रियविघटितसर्वदे शस्थितकोकांगनाहृदुपगतप्रज्वलिष्यद्विरहाऽनलधूमस्तोमतादात्म्यसम्भावनास्वरूपोत्प्रेक्षातमसोविषयस्योपादानादु क्तविषया । तमोव्यापनस्यनभःप्रभृतिभूपर्यंतसकलवस्तु सान्द्रमलिनीकरणेननिमित्तेनतमःकर्तृकलेपनतादात्म्योत्प्रे क्षा।नभःकर्तृकांजनवर्षणतादात्म्योत्प्रेक्षाचानुक्तविषयास्वरू पोत्प्रेक्षा। उभयत्रापिविषयभूततमोव्यापनस्यानुपादानात्। नन्वत्रतमसोव्यापनेननिमित्तेनलेपनकर्तृतादात्म्योत्प्रेक्षान भसोभूपर्यंतंगाढनीलिमव्याप्तत्वेननिमित्तेनांजनवर्षणकर्तृ तादात्म्योत्प्रेक्षाचेत्युत्प्रेक्षादयमुक्तविषयमेवास्तु । मैवम् । लिम्पतिवर्षतीत्याख्यातयोःकर्तृवाचकत्वेपिभावप्रधानमारख्यातमितिस्मृतेर्धात्वर्थक्रियायाएवप्राधान्येनतदुपसर्जनत्वे नान्वितस्यकर्तुरुत्प्रेक्षणीयतयाअन्यत्रान्वयासंभवात् । अ तएवआख्यातार्थस्यकर्तुःक्रियोपसर्जनत्वेनान्यत्रान्वयासंभ वादेवअस्योपमायामुपमानतयान्वयोपिदंडिनानिराकृतः । ‘क यापमानस्यान्यग्भूतोसौक्रियापदे॥ स्वक्रियासाधन व्यग्रोनालमन्ययपेक्षितुमिति॥' विस्तरस्येति । प्रसरणशीलस्येसर्थः । तमसइतिसंभावनेसनेनान्वेति । षष्ठयों
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy