________________
चंद्रिकासमेतः स्मरनाराचाइत्यपन्हवःप्रतीयते ॥ रिक्तेषुवारिकथयाविपि नोदरेषुमध्यान्हजूंभितमहातपतापतप्ताः । स्कंधांतरोत्थित दवाग्निशिखाच्छलेनजिव्हांप्रसार्यतरवोजलमयंते ॥३०॥ कैतवापन्हुतिरितिलक्ष्यनिर्देशः । व्याजायै पदैनिन्हुतेर्व्यक्तौअभिव्यक्तीसत्यां कैतवापन्हुतिरितिव्यवहर्तव्यमित्यर्थः । कैतवेनापन्हुतिरितिव्युत्पत्तेः। व्याजाचैरि त्यनेनमिषकपटछलछद्मकैतवादयोगृह्यते । एवंचकैतवादिपदव्यंग्यापन्हुतिखलक्षणं योध्यम् । नाराचावाणादृक्पाता:कटाक्षाःअपन्हवोनिषेधः । प्रतीयतइति । असत्यख स्यविषयबाधाधीनखादितिभावः। रिक्तेष्वितिग्रीष्मवर्णनम् । तरवोवृक्षावारिणोजल स्यकथयावार्तयापिरिक्तेषुशून्येपुविपिनस्यारण्यस्योदरेषुमध्यप्रदेशेषुजलमर्थयतेप्रार्थयं ते । कीदृशाः मध्यान्हेभितःप्रवृद्धोयोमहानातपउष्णतस्यतापस्तपनंतेनतप्ताःसंत साः। किंकृता स्कंधांतरात्प्रकांडाभ्यंतरादुत्थितोयोदवाग्निर्दावानलस्तस्ययाशिखा ज्वालातस्याःश्छलेनजिव्हांप्रसार्येति । अस्त्रीप्रकांडःस्कंधःस्यान्मूलाच्छाखावधिस्तरो रित्यमरः । अत्रनेयंदवाग्निशिखा अपितुजेव्हितिछलपदात्प्रतीयते । अत्रचानभिहित वाच्यतादोपनिरासायकथयापिवनोदरेष्वितिपठनीयं ॥३०॥ इत्यपन्हुतिप्रकारणं ॥
संभावनास्यादुत्प्रेक्षावस्तुहेतुफलात्मना ॥ उक्तानु क्तास्पदाद्यावसिद्धासिदास्पदेपरे ॥ ३१ ॥ धूमस्तो मंतमःशंकेकोकोविरहशुष्मणां ॥ लिंपतीवंतमोंगा निवर्षतीवांजनंनभः ॥ ३२ ॥ रक्तौतवांघीमृदुलौभु विविक्षेपणाद्ववम् ॥ त्वन्मुखाभेच्छयानूनंपनेर्वैराय तेशशी ॥ ३३ ॥ मध्यःकिंकुचयोऽत्यैबद्धःकनकदा
मभिः ॥ प्रायोखंत्वत्पदेनैक्यप्राप्तुंतोयेतपस्यति॥३४॥ अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्यतादात्म्यसंभावनमुत्प्रे क्षा।सावस्तुहेतुफलात्मतागोचरत्वेनत्रिविधा।अत्रवस्तुनःक स्यचिदस्त्वंतरतादात्म्यसंभावनाप्रथमास्वरूपोत्प्रेक्षेत्युच्यते। अहेतोर्हेतुभावेनाफलस्यफलत्वेनोत्प्रेक्षाहेतूत्प्रेक्षाफलोत्प्रेक्षे त्युच्यते।अत्रआद्यास्वरूपोत्प्रेक्षाउक्तविषयानुक्तविषयाचेति द्विविधा परेहेतुफलोत्प्रेक्षेसिद्धविषयाऽसिद्धविषयाचेतिप्रत्ये