________________
२८
कुवलयानंदः धसत्त्वादतिप्रसंगवारणायाविशेषणं । तत्रहिनकांतखनिषेधोनूपुरारोपार्थोपितुनूपुरा रोपएवशंकितकांतखनिषेधार्थइतितघ्यावृत्तिः।पर्यस्तापन्हुतिवारणायोपमेयधर्मेत्युक्त। तत्रोपमानधर्मस्यैवसुधांशुखादेनिषेधइतिनातिव्याप्तिरितिसचमुस्थम् । पुंडरीकेति । पुंडरीकंसिताम्भोजमियमरः । एचसरोरुहपदं विशेषपरमितिभावः । अंकमिति । इंदौदलितस्यस्फुटितस्येंद्रनीलमणे शकलवच्छयायहरीदृश्यतेतत्के पिकवयोंऽकम्कलं कंशशंकिरेशंकितवन्तः । परेऽन्येजलनिधेःपंर्कमेनिरे कतिचित्पुनःसारंगसंजगदिरे अब्रुवन् । परेइतरे भुवोभूमेश्छायाभूच्छायंऐच्छन् । विभाषासेनासुराच्छायेखादिमाली वलं । वयं तुसांद्रधनंनिशिरात्रौपीतमतएवकुक्षिस्थमंधतमसंगाढध्वान्तमाचक्ष्महे ब्रूमहइ सन्वयः। औत्मेक्षिकाउत्प्रेक्षामात्रविषयाःकलंकादयः । अपिनाखाभाविकस्यभूच्छा यवस्यसमुच्चयोऽर्थसिद्धइति । नायंसुधांशुरिसत्रनेतिशब्दोपात्तखाच्छाब्दः । इहतुपरम तलोत्कीर्तनेनखानभिमतखसूचनादर्थगम्यइयर्थः । एकत्रानेकापन्हवरूपतयाप्यत्र चित्र्यंबोध्यम् ॥ २५॥
सएवयुक्तिपूर्वश्चेदुच्यतेहेत्वपन्हुतिः ॥ नेंदु
स्तीवोननिश्यर्कःसिंधोरौर्वोयमुत्थितः॥२६॥ अत्रचंद्रएवतीव्रत्वनैशत्वयुक्तिभ्यांचंद्रत्वसूर्यत्वापन्हवोवड वानलत्वारोपार्थः। यथावा ॥ मंधानभूमिधरमूलशिलासह स्रसंघट्टनव्रणकिणःस्फुरतीदुमध्ये ॥ छायामृगःशशकइत्य तिपामरोक्तिस्तेषांकथंचिदपितत्रहिनप्रसक्तिः ॥ अत्रचंद्रम ध्येमंथनकालिकमंदरशिलासंघट्टनव्रणकिणस्येवछायादीनां संभवोनास्तीतिछायात्वाद्यपन्हवःपामरवचनत्वोपन्यासेना .
विष्कृतः ॥ २६ ॥ हेलपन्हुतिमाह ॥ सएवेति । शुद्धापन्हवएवेसर्थः । युक्तिपूर्वइति । योज्यतेसाध्यम नेनेतियुक्तिहेतुस्तत्पूर्वस्तत्सहितइयर्थः । तथाचशुद्धापन्हवलक्षणएवानुक्त निमित्त इस स्यस्थानेउक्त निमित्तइत्युक्तौहेवपन्हुतिलक्षणंसंपद्यतइतिभावः। नेदुस्सिा दिविरहा कुलोकिः। तीव्रोदारणोयतोऽतोनेंदुः। निशिरात्रौसखानार्कः। और्वस्तुवडवानलइस मरः । नैशवेति । निशिभवोनशस्तत्त्वमित्यर्थः । अत्रापिचंद्रवंस्वाभाविकोधर्मः सूर्यवं खौत्प्रक्षिकमितिध्येयम् । मंथानेति । मंथानोमंथनदंडःसचासौभूमिधरःपर्वतोमंदर स्तस्यमूलभारोयच्छिलासहस्रतेनसंघटनाद्योव्रणस्तस्यकिणश्चिन्हमिन्दुमध्यस्फुरतिम काशते । छायाभूमेः । मृगोहरिणः । शशकःशशःइत्येषामतिपामराणांमूर्खतमाना