SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः .२१ जलमयसाधारणंचंद्रसंबोधनं । ग्लपितैर्नष्टैरसुभिर्निमित्तैभूतभीमसुतायादमयं सामनो निमज्जतुनिलीयतामितिमन्यसे । किमितिसोपहासकाकुः । तेनमैवंमस्थाइसर्थः । अत्रहेतुमाह । किलनिश्चितं । ममविबुधः पंडितःस्मरः । तदर्थिकांसः प्राणनिर्ग मकालीनमनःप्रवेशअर्थोयस्यास्तां श्रुतिम् । नलमुखेंदुपरां मनःप्रवेशाधिकरणले ननलमुखचंद्रतात्पर्यवतीमाहेति । अयंकलंकिनइत्युदाहरणे दोषशून्यत्वप्रयुक्तंशा व्दमाधिक्यं इहतुगुणविशेषप्रयुक्तंगम्यमानंतदितिविशेषः । सावयवत्वनिरवयव त्वादीति । आदिनासमस्त वस्तुविषयत्वादिरूपैतत्प्रभेदानाम्परं परितत्वरूपभेदांतर स्यचपरिग्रहः । तथाहि सावयवं निरवयवं परं परितंचेतित्रिविधंरूपकम् । प्रत्येकंक्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्तिच केवलम्मालाच श्लिष्टवाचकम श्लिष्टवाचकंचेति । श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामंसं चतुर्विधमियष्टौ भे दाः । तत्र ' ज्योत्स्नाभस्मच्छुरणधवला बिभ्रतीतारकास्थीन्यंतर्धानव्यसनरसि कारात्रिकापालिकीयम् ॥ द्वीपाद्वीपं भ्रमतिदधती चंद्रमुद्राकपाले न्यस्तं सिद्धांजनपरिम लंलांछनस्यछलेन’॥ इतिपद्ये रात्रौ कापालिकी खारोपस्यप्रधानतयाऽवयविनोऽवयव रूपाणिज्योत्स्नाभस्मेयादिरूपकाणी तिसावयवत्वं समस्तस्यवस्तुनआरोप्यमाणस्यश ब्दविषयत्वंचद्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचांबिंदवः कुटजपुष्पबंधवः ॥ वि द्युतांनभसिनाट्यमंडले कुर्वते स्म कुसुमांजलिश्रियम्' | इसत्रप्रधानस्यनभसिनाट्यमंडल खारोपस्यावयवभूतं विद्युतांनर्तकी खरूपणमार्थ नशाब्दमिलेकदेशेविशेषेणशाब्दतयाव र्तनादेकदेशविवर्तित्वम् । ' कुरंगी वांगा निस्तिमितयतिगीतध्वनि षुयत्सखींकांतोदतंश्रु तमपिपुनःप्रश्नयतियत् ॥ अनिद्र्यच्चांतःस्वपितितद होवे इयभिनवांप्रवृत्तोस्याः सेतुंह दिमनसिजः प्रेमलतिकां ॥' इसत्रप्रेमलतिकामियमालारूपंनिरवयवं । ' सौंदर्यस्यतरं गिणी तरुणिमोत्कर्षस्यहर्षोद्गमः कांतेः कार्मणकर्मनर्भरह सामुल्लासनावासभृः॥ विद्यावक्र गिरांविधेरनवधिप्रावीण्य साक्षात्क्रियाबाणाः पंचशिलीमुखस्य ललना चूडामणिः सामि या ॥' इत्यत्रचमालारूपंनिरवयवं बोध्यं । एवं 'अलौकिक महा लोकप्रकाशितजगत्त्रयः॥ स्तूयते देव सद्वंशमुक्ता रत्नं नकैर्भवान् ॥' इसत्रवेणुकुलयोः श्लिष्टेनवंशपदेनकुलेवेणुखारोप पूर्वकएवराज्ञिमुक्तारत्नत्वारोपइतिश्लिष्टवाचकं केवल परंपरित रूपकं विद्वन्मानसेसादा वेतदेवमालारूपम् । चतुर्दशलोकवल्लिकंदइसत्राश्लिष्टवाचकं केवल परं परितं । पर्यंको राज्यलक्ष्म्याइत्यादावालानंजयकुंजर स्येयादौ चाश्लिष्टवाचकंमालापरंपरितंचद्रष्टव्यं । विस्तरभयान्नेहप्रपंच्यते । इसलंकारचंद्रिकार्यारूपकप्रकरणम् ॥ १७ ॥ १८॥ १९ ॥ परिणामः क्रियार्थश्चेद्विषयीविषयात्मना ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy