________________
चंद्रिकासमेतः
नप्रातिलोम्यात्पंचमंप्रतीम् । यथावा ॥ तदोजसस्तद्यशसः स्थिताविमौवृतिचित्ते कुरुतेयदायदा ॥ तनोतिभानोः परि वेषकैतवात्तदा विधिः कुंडलनांविधोरपि ॥ केचिदनन्वयोपमे योपमाप्रतीपानामुपमा विशेषत्वेन तदंतर्भावमन्यते । अन्ये तुपंचमंप्रतीप प्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः १६ प्रतीपमिति । क अर्थः प्रयोजनंयस्यतत्तथा । अनर्थकमितियावत्तस्यभावः कैमर्थ्य | तदपिप्रतीपमन्वते आलंकारिकाइतिशेषः । ननूपमानस्यपद्म चंद्रादेराल्हाद विशेषरूप प्रयोजनसच्वात्कथमनर्थकत्वमतआह । उपमेयस्यैवेति । उपमानधूर्व हत्वेनोपमानकार्य कारित्वेन । अयंचोपमान कैमर्थ्य हेतुः । अतश्चोपमान कै मर्थ्यमित्यध्याहार्य | आल्हा दविशेषादेरन्यलभ्यत्वेनप्रयोजनत्वासंभवात्कैमर्थ्यमितिभावः । उपमानप्रयोजकधू र्वहत्वेनेतिपाठे उपमानंप्रयोजकं यस्याइति बहुव्रीहिः । ननूपमान कैमर्थ्यस्योपमानाक्षेप वाक्षेपइतिवामनसूत्रेणाक्षपालंकारत्वेनेाक्तत्वात्कथंप्रतीपत्त्रमत आह । उपमानप्राति लोम्यादिति । उपमानप्रतिकूलत्वादिसर्थः । प्रतिकूलवंचतिरस्कारप्रयोजकखमित्यु क्तम् । तथाचप्रतीतसामान्यलक्षणाक्रांतत्वात्प्रतीपांतर्भावएवोचितइतिभावः । त दोजसइति । नैषधयेनैषधवर्णनमिदं विधिर्ब्रह्मातस्य नलस्यैौजसः प्रतापस्यतद्यशसश्च स्थितौसयामिमौसूर्य चंद्रौटथा प्रतापज्योत्स्नादेः कार्यस्यताभ्यामेवोपपत्तेर्निरर्थकावि तिचित्तेयदायदाकुरुते तदाभानोर्विधोश्व परिवेषस्य परिधेः कैतवाच्छला कुंडलनांवैयर्थ्य सूचिकांरेखावेष्टनांकरोतीत्यन्वयः । अत्रचनायंपरिवेषः किंतु कुंडलनेस पन्हुतौ कैम
रूपप्रतीपस्यांगत्वात्तयोरंगांगी भावलक्षणःसंकरः । यद्यत्पापमित्यादिवच्चतत्पदे वीप्सायाकरणं न दोषइतिबोध्यम् । केचिद्दं डिप्रभृतयः अनन्वयोपमाप्रतीपानामि तिप्रतीपपदेन चात्राद्यभेदत्रयमेवगृह्यते नत्वंत्यभेदद्वयमपि । तत्रोपमितिक्रिया निष्पत्तेर भावेनोपमांतर्भावस्यासंभवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापिनोपमांतर्गतिर्युक्ता । च मत्कारंप्रतिसाधर्म्यस्यप्राधान्येनाप्रयोजकत्वात् । सामर्थ्यनिबंधनउपमानतिरस्कार एवदितत्र चमत्कृतिप्रयोजकतयाविवक्षितः नतु साधर्म्यमेवमुखतश्चमत्कारितयाविव क्षितमितिसहृयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपिनसादृश्यस्य चमत्कारितया प्राधान्येनविवक्षा किंतुद्वितीयतृतीयसदृशव्यवच्छेदोपायतयेतिनतयोरप्युपमांतर्ग तिर्यु ज्यते । अन्यथा सादृश्यवर्णनमात्रेणोपमांतर्भावे ॥ धैर्यलावण्यगांभीर्यप्रमुखैस्त्वमुदन्वतः॥ गुणैस्तुल्यो सिभेदस्तुवपुषैवेदृशेनत' इतिव्यतिरेकालंकारस्याप्युपमांतर्गतिःस्यात्। तत्र साधर्म्यसमानाधिकरण वैधर्म्यमेवचमत्कारेप्रधानं नतुसाधर्म्य मितिचेत्तुल्यमिदं प्रतीपा
१५