SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १३ ननु सिद्धस्योपमानोपमेयभावस्यवैपरीत्यादि तियथाश्रुतरीखाएवंविधमा तिलोम्यस्य तृतीयपंचमप्रतीपभेदाव्यापिखेनप्रतीपपदमवृत्तिनिमित्तत्वायोगादिति । एवं चोक्तप्रका रेणोपमानप्रातिकूल्यस्यप्रतपिपदप्रवृत्तिनिमित्तत्वकथनेनम सिद्धोपमानप्रतिकूलधर्मःम तीपमितिप्रतीपपंचक साधारणसामान्यलक्षणमितिसूचितं । अतएवपंचमप्रतीपव्या ख्यानावसरेवक्ष्यति। उपमानप्रातिलोम्यादिति । प्रतिकूलत्वंचतिरस्कारप्रयोजकत्वं । एतस्यचसकलमती पभेदसाधारण्यंतत्रतत्रस्फुटीकरिष्यते । यथावेति । प्रोषितस्य प्रियांम तिवियोगवेदनानिवेदनमिदं । अयिप्रियेत्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपिममदैवेननक्षम्यते । एतदेवदर्शयतियदित्यादिना । त्वन्नेत्रयोः समाना साधार णीकांतिःशोभायस्यतथाविधंयदिंदीवरंतत्सलिलेमनं । वर्षर्तुनाजलवृद्धेः । तवमुखस्य छाययाकांसा अनुकारीसदृशः शशी । मेघैरंत रितस्तिरोहितः । येपीसपिर्भिन्नक्रमः व गमनसदृशगतयोये राजहं सास्तेपिगताइति । अत्रकांतीत्यादिधर्मोपादानात्पूर्वोदाहरणवै लक्षण्यं बोध्यं । ननूपमा नादुपमेयस्याधिक्यवर्णनारूपादयतिरेकालंकारादस्यकोभेदः । उच्यते। तत्रवैधर्म्यप्रयुक्तमुपमेयस्याधिक्यं विवक्षितमिहतूपमानतामात्रप्रयुक्तत्वात्सा धर्म्यप्रयुक्तमिति ॥ १२ ॥ 1 अन्योपमेयलाभेनवर्ण्यस्यानादरश्वतत् ॥ अ लंगर्वेण तेवक्रांत्याचंद्रापितादृशः ॥ १३॥ अत्युत्कृष्टगुणतयावर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमान स्योपमेयंकिंचित्प्रदर्श्यतावतातस्यतिरस्कारोद्वितीयंप्रतीपंपू र्वस्मादपिविच्छित्तिविशेषशालि । यथावा ॥ गर्वमसंवाह्यमि मंलोचन युगलेन किंवह सिभद्रे || संतीदृशानिदिशिदिशिस रस्सुननुनीलनलिनानि ॥ १३ ॥ प्रतीपांतरमाह । अन्योपमेयेति । अन्यदवर्ण्यमुपमानंतद्रूपं यदुपमेयंतस्य लाभेनव र्णनीयस्य मुखादेरनाद रोगर्वपरिहारोपितत्प्रतीपमित्यर्थः । तस्य र्गवप्रसक्तिपूर्वकत्वेनो पमेयतायाअपिपूर्वममाझ्या उपमान तिरस्कृतिविशेषप्रयोजकत्वादितिभावः । अतएव लाभेनेत्युक्तं नतुसत्वेनेति । अप्राप्तमातेला भशब्दार्थत्वात् । विच्छित्तिविशेषेति । चमत्कारोत्कर्षइत्यर्थः । उक्तरीयोपमानतिरस्कारातिशयप्रतीतेरितिभावः । गर्वमि ति। असंवाह्यंसंवहनायोग्यमपरिमितमितियावत् । भद्रेशोभनेइतिसंबोधनं । नन्वि तिहेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणेकांत्येतिसमानधर्मोपादानमि हतुनेतिभेदः ॥ १३ ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy