________________
१६०
कुवलयानंदः
प्रागिति । परसंनिधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणोनामालंकारः । नी लोत्पलानिकर्णावतंसीकृतानि । कपिरिति । कापिशायनंमद्यं ॥ १४४ ॥ इयनुगुणः॥ मीलितंयदिसादृश्याद्भेदएवनलक्ष्यते ॥ रसो
नालक्षिलाक्षायाश्वरणेसहजारुणे ॥ १४५ ॥
यथावा ॥ मल्लिकामाल्यभारिण्यःसर्वांगीणार्द्रचंदनाः ॥ क्षौ मवत्योनलक्ष्यंते ज्योत्स्नायामभिसारिकाः ॥ अत्राद्येचरणा लक्तकरसयोररुणिमगुणसाम्याद्भेदानध्यवसायः । द्वितीयो दाहरणेचंद्रिकाभिसारिकाणांधव लिमगुणसाम्याद्भेदानध्यव
सायः ॥ १४५ ॥
मीलितमिति लक्ष्यनिर्देशः । रसइति । स्वभावलोहितेचरणेलाक्षायारसोनालक्षि नज्ञातः । मल्लिकेति । क्षौमंदुकूलंतद्धारिण्यः ॥ १४५ ॥ इसलंकारचंद्रिकायांमीलितं । सामान्यंयदिसादृश्याद्विशेषोनोपलक्ष्यते ॥ पद्मा
करप्रविष्टानांमुखं नालक्षिसुनुवाम् ॥ १४६ ॥ यथावा ॥ रत्नस्तंभेषु संक्रांतैः प्रतिबिंबशतैर्वृतः ॥ लंकेश्वरःस भामध्येनज्ञातोवालिसूनुना ॥ मीलितालंकारेएकेनापरस्यभि न्नस्वरूपानवभासरूपंमीलनंक्रियते । सामान्यालंकारेतुभिन्न स्वरूपावभासेपिव्यावर्तक विशेषोनोपलक्ष्यतइतिभेदः । मी लितोदाहरणेहिचरणादेर्वस्त्वंतरत्वेनागंतुकंयावकादिनभास ते । सामान्योदाहरणेतुपद्मानांमुखानांचव्यक्त्यंतरतयाभान मस्त्येव । यथारावणदेहस्यतत्प्रातिबिंबानांचकिंत्विदपद्माम दंमुखमयंबिंबोयंप्रतिबिंबइतिविशेषः परंनोपलक्ष्यते । अत एवभेदतिरोधानान्मीलितं तदतिरोधानेपि साम्येनव्यावर्तका नवभासे सामान्यमित्युभयोरप्यन्वर्थता । केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्दलीयसातद्न्यस्यस्वरूपतिरोधा
नेमीलितस्वरूपप्रतीतावपिगुणसाम्याद्भेदतिरोधानेसामान्यं ॥सामान्यमिति लक्ष्यनिर्देशः । विशेषोव्यावर्तकधर्मः । पद्मानामाकरः । रत्नस्तंभे ष्विति । वालिसूनुनांगदेन एकेन चरणज्योत्स्नादिना । अपरस्यलाक्षारसाऽभिसा रिकादेः । भिन्नस्वरूपेति । मुखपद्मादेर्भिन्नस्यस्वरूपस्यावभासेपीयर्थः । उक्तमेवार्थ