SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः णोवावर्ण्यतेसउल्लासः । द्वितीयार्द्धमाद्यस्योदाहरणम् । तत्रप तिव्रतामहिमगुणेन तदीयस्नानतोगंगायाः पावनत्वगुणोवर्णि तः । द्वितीयश्लोके द्वितीयस्योदाहरणम् । तत्रराज्ञोधाटीषुव नेपलायमानानामरातियोषितां पादयोर्धावनपरिपन्धिमादेव दोषेणतयोः काठिन्यमसृष्ट्राव्यर्थं कुचयोस्तत्सृष्टवतोधातुर्निय त्वदोषोवर्णितः । तृतीय श्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्रसज्जनमहिमगुणेन धनस्य तदनाश्रयणदोषत्वेनराज्ञः क्रौर्य दोषेणतत्सेवकानांवर्धविनाविनिर्गमनं गुणत्वेन वर्णितं ॥ - १५० एकस्येति । एकस्यगुणदोषाभ्यामन्यस्य ता गुणदोषौयदि भवतस्तदोल्लासालंकारः । अपीति । अपिसंभावनायम् । साध्वी पतिव्रतास्त्रास्त्रामांपावयेदितिजान्हवीइच्छती त्यन्वयः । तवघाटीषुयुद्धयात्रासुकुचयोः । सृष्टंकाठिन्यं पादपद्मयोवछंत्योरियोषितो विधातारंनिंदतीत्यन्वयः । स्रष्टुमितिपाठेकुचयोः काठिन्यंपादयोः स्रष्टुमिच्छंत्यइसन्व यः । लाभोयमिति । भूपाल सेवकानामयमेवला भोयदिवधानभवतीत्यन्वयः ॥ - अनेनैवक्रमेणोदाहरणांतराणि ॥ यदयंरथ संक्षोभादंसेनांसोनि पीडितः ॥ एकः कृतीम दंगेषुशेष मंगंभुवोभरः ॥ अत्रनायिका सौंदर्यगुणेन तदंसनिपीडितस्यस्वांसस्य कृतित्वगुणोवर्णितः । लोकानंदन चंदनद्रुमसखेनास्मिन्वनेस्थीयतां दुवैशैः परुषैरसा रहृदयैराक्रांतमेतद्वनं ॥ तेह्यन्योन्यनिघर्षजातदहनज्वालाव लीसंकुलानस्वान्येवकुलानि के वलमिदं सर्व दहे युर्वनं ॥ अत्रवे णूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोषेणवननाशरूप दोषो वर्णितः । दानार्थिनो मधुकरायादिकर्णतालैर्दूरीकृताः करि वरेणमदांधबुध्या ॥ तस्यैवगंडयुगमंडनहानि रेषाभृंगाः पुनर्वि कचपद्मवनेचरंति अत्रभ्रमराणामलंकरणत्वगुणेनगजस्यत त्प्रतिक्षेपो दोषत्वेनवर्णितः । आघ्रातंपरिचुंबितंपरिमुहुर्ली ढंपुनश्चर्वितंत्यक्तंवाभुविनीरसेनमनसातत्र्व्यथांमाकृथाः ॥ हे सद्रत्नतवैव देवकुशलंयद्वानरेणादरादन्तः सारविलोकनव्य सनिनाचूर्णीकृतं नाइमन ॥ अत्रवानरस्यचापलदोषेणरत्नस्य
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy