________________
१४६
कुवलयानंदः
वित्यर्थः ! अप्रस्तुतेति । अप्रस्तुतस्यशकुंतादेस्तत्रवर्णनीयत्वादतिशयोक्तिस्थलेचवा पीकापीयादौवापीखादिना प्रस्तुतनाभ्यादेर्वर्ण्यत्वा न्नातिशयोक्तिस्तत्रापादयितुं शक्ये तिभावः । अप्रसिद्धो यहेतुरित्याह तत्रेति । प्रसिद्धेति । वापीकापीयादिसर्वसंमतेत्य र्थः । तद्गतेति । प्रस्तुतगर्तेत्यर्थः ॥ -
वस्तुतस्तु 'सोऽपूर्वोरसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सामदविस्मृतस्वपरदिक्किंभूयसोक्तेनवा ॥ पूर्वनिश्चितवानसि भ्रमरहेयद्वारणोद्याप्यसावंतः शून्यकरोनिषेव्यतइतिभ्रातः कएष ग्रह' इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्था त्प्रस्तुतवाक्यार्थेऽवगम्यतइत्येतन्नघटते । अप्रस्तुतेवारणस्य भ्रमरासेव्यत्वे कर्णचापलमात्रस्य भ्रमर निराकरण हेतुत्वसम्भवे पिरसनाविपर्ययांतः शून्यकरत्वयोर्हेतुत्वासम्भवेनमदस्य प्रत्युत तत्सेव्यत्वएव हेतुत्वेन चरसनाविपर्ययादीनान्तत्रहेतुत्वान्वया थैवारणपदस्य दुष्प्रभूरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्यत्वात् । एवंसत्यपियद्यप्रस्तुतसंबोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुत प्रशंसाया अतिशयोक्तितोभेदोघटते ॥ तदात्रापि प्रस्तुतंधर्मिणं स्वपदेन निर्दिश्यतत्राप्रस्तुतवर्णनारूपस्यविच्छित्तिविशेषस्यस द्भावात्ततोभेदः सुतरांघते ॥ -
अप्रस्तुतप्रशंसायांकचित्प्रस्तुताप्रस्तुतयोरभेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिका लेदृश्यते । ललितेतुनक्कापी तिसुतरामतिशयोक्तितोभेद इसाहसोऽपूर्वइयादिना । रस नाविपर्ययः अग्निशापात्करिणां जिव्हापरिवृत्तिः । पूर्वविपरीताभिधानंच | कर्णचा पलंप्रसिद्धं पिशुनप्रतार्यखंच । मदः प्रसिद्धः गर्वश्च । तेन विस्मृतास्वपरयोर्दिङ्मार्ग आप्ता नाप्तविभागश्चयया सादृष्टिः वारणोगजोवारकश्च । शून्यः सरंधोधनरहितश्च । करःशुंडा हस्तश्च । ग्रहआग्रहः । कुतोनघटतेतत्राह अप्रस्तुतइति । एतच्चभ्रमरासेव्यत्वइसस्यवि शेषणं । भ्रमर निरासकरणस्येतिचकर्णचापलमात्र स्येसस्यक्रोडीकरः । स्वार्थेन सममभे दाध्यवसायः । अप्रस्तुत संबोधनादीति । आदिनासारूप्य निबंधनप्रस्तुतवाक्यार्थाव गतिपरिग्रह अत्रापिललितालंकारेपि । वर्णनारूपस्येति । चमत्कारितारुरूपायावि च्छित्तेस्तदवच्छेदकवर्णनारूपत्वमिसभिप्रायः ॥—
'पश्यनीलोत्पलद्वंद्वान्निस्तरंति' 'वापीकापिस्फुरतिगगनेतत्प