________________
१४४
कुवलयानंदः अत्रवेश्यावशीकरणस्यात्यंतासंभावितत्वसिद्धयेगगनकुसुम मालिकाधारणरूपातरकल्पनंमिथ्याध्यवसितिः। यथा वा ॥ अस्यक्षोणिपतेःपरार्धपरयालक्षीकृताःसंख्ययाप्रज्ञाच क्षुरवेक्ष्यमाणबधिराव्याकिलाकर्तियः ॥ गीयंतेस्वरमष्टमं कलयताजातेनवंध्योदरान्मूकानांप्रकरेणकूर्मरमणीदुग्धोदधे रोदसि॥अत्राद्योदाहरणनिदर्शनागर्भ द्वितीयंतुशुद्ध । असंबंधे संबंधरूपातिशयोक्तितोमिथ्याध्यवसितेःकिंचिन्मिथ्यात्वासि
यमिथ्यार्थांतरकल्पनात्मनाविच्छित्तिविशेषेणभेदः॥१२६॥ किंचिदिति। कस्यचिदर्थस्यमिथ्यावसिद्धयर्थमिथ्याभूतार्थांतरकल्पनंमिथ्याध्य वसितिरलंकारः । वेश्यामित्युदाहरणं । खस्रजंगगनमालां । अत्र बपुष्पमालाधारण मिववेश्यावशीकरणमितिनिदर्शनापिवोध्या । अस्येति । परार्थपरयापरार्द्धसंख्याम तिक्रांतया । लक्षीकृताउपलक्षिताः । प्रज्ञाचक्षुषाअंधेनावेक्ष्यमाणाश्चताबधिराव्या चेतिकर्मधारयः । कलयताकुर्वता ।प्रकरणसमूहेन । कूर्मरमणीकच्छपी।रोधसितीरे। मिथ्याध्यवसितेरियस्यभेदइयत्रान्वयः । कल्पनाविच्छित्तिविशेषेणकल्पनाप्रयुक्तवि च्छित्तिविशेषेण । कल्पनात्मनेतिपाठेकल्पनास्वरूपेणेसर्थः । उपधेयसंकरेप्युपाघेरसं करात् । विच्छित्तिविशेषेणेतिचतस्यैवविशेषणं । विच्छित्तेर्विशेषोयस्मादिति विच्छि तिविशेषयतिव्यावर्तयतीतिवाव्युत्पत्तेः। एतेनमौढोक्त्यैवगतार्थतामाचक्षाणानिरस्ता. वेदितव्याः । नचमिथ्याध्यवसितेरलंकारांतरखे ॥ हरिश्चंद्रेणसंजप्ताःप्रगीताधर्मस्नु नाखेलतिनिगमोत्संगेमातगंगेगुणास्तवे सादौहरिश्चंद्रादिसंबंधाद्गुणानांसत्यताप्रती तेः । सत्याध्यवसितिरपितथास्यादितिवाच्यं । सत्यताप्रतीसर्थकस्याप्यर्थस्यकविन तिभाकल्पितखाभावेनशब्दमात्रेणालंकारतायाअसंभवात् । कविप्रतिभामात्रकल्पिता अर्थाः । काव्येअलंकारपदास्पदमितिविषमालंकारप्रकरणेखयैवाभिधानादिसलंवि स्तरेण ॥ १५६ ॥ इसलंकारचंद्रिकायांमिथ्याध्यवसितिरलंकारः ॥
कर्णेस्याद्वर्ण्यवृत्तांतप्रतिबिंबस्यवर्णनं ॥ - ललितंनिर्गतेनीरसेतुमेषाचिकीर्षति ॥ १२७॥ प्रस्तुतेधर्मिणियोवर्णनीयोवृत्तांतस्तमवर्णयित्वातत्रैवतत्प्रति बिंबरूपस्यकस्यचिदप्रस्तुतवृत्तान्तस्यवर्णनंललितं यथाकथं चिहाक्षिण्यसमागततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरा