________________
१३८
कुवलयानंदः तु तद्विशिष्टपशुपुरस्कृतसाभावएवसाक्षादुपपदाकइति तत्कोटिनिविष्टव्यंग्यकाव्यलिं गरूपस्यतस्यांगमेव । व्यंग्यांतरंतुनोक्तकाव्यलिंगगम्यमर्थोपपादकमस्तीतिनिराबाध मेवकाव्यलिंगमिति । ननुस्वयमन्योपपादकस्यकाव्यलिंगस्याप्युपपादकंकदृष्टमिसाशं क्योदाहरति यवन्नेत्रेति। एतत्प्रतीपालंकारेप्रागुदाहृतीअनेकवाक्यार्थहेतुकेति पूर्वपाद प्रयवाक्यार्थत्रयस्यचतुर्थपादार्थेहेतुत्वमितिज्ञेयं हेतुभावोपपादकानीति । इंदीवरस्यने समानकांतिवंविनापटादेरिवतददर्शनस्यदैवगतकांतासादृश्यविनोदासहिष्णुलेहेतु खासंभवादितिभावः । समाहितमर्थमुपसंहरति । इतीति । तयो पशुनापीतिमच्चित्ते स्तीसेतयोः ॥ १२० ॥ इतिकाव्यलिंगालंकारः ॥
उक्तिरीतरन्यासःस्यात्सामान्यविशेषयोः॥ हनु मानब्धिमतरदुष्करंकिंमहात्मनाम् ॥ १२१ ॥ गुणक्वस्तुसंसर्गाद्यातिस्वल्पोपिगौरवम् ॥पुष्पमा
लानुसंगेनसूत्रंशिरसिधार्यते ॥ १२२॥ सामान्यविशेषयोईयोरप्युक्तिरतिरन्यासस्तयोश्चैकम्प्रस्तुतम न्यदप्रस्तुतंभवति ततश्चविशेषेप्रस्तुते तेनसहाप्रस्तुतसामान्य रूपस्य सामान्येप्रस्तुतेतेनसहाप्रस्तुतविशेषरूपस्यार्थातरस्य न्यसनमर्थातरन्यासइत्युक्तंभवति । तत्राद्यस्यद्वितीयार्द्धमुदा हरणं द्वितीयस्यद्वितीयश्लोकः । नन्वयकाव्यालंगानातिरि च्यते। तथाहि । उदाहरणद्वयेप्यप्रस्तुतयोःसामान्यविशेषयोरु क्तिःप्रस्तुतयोविशेषसामान्ययोःकथमुपकरोतीतिविवेक्तव्यं । नहिसर्वथैवप्रस्तुतानन्वय्यप्रस्तुताभिधानंयुज्यते । नतावदप्र स्तुतप्रशंसायामिवप्रस्तुतव्यञ्जकतयाप्रस्तुतयोरपि विशेषसा मान्ययोःस्वशब्दोपात्तत्वान्नाऽप्यनुमानालंकारइव प्रस्तुतप्रती तिजनकतयातददिहव्याप्तिपक्षधर्मताद्यभावात् । नापिदृष्टांता लंकारइवउपमानतया ‘विस्रब्धघातदोषःस्ववधायखलस्यवी रकोपकरः। नवतरुभंगध्वनिरिवहरिनिद्रातस्करःकरिण' इत्या दिषुसामान्येविशेषस्योपमानत्वदर्शनेपिविशेषेसामान्यस्यक चिदपितददर्शनात् ॥उपमानतयातदन्वयेसामंजस्याप्रतीतेश्च तस्मात्प्रस्तुतसमर्थकतयैवाप्रस्तुतस्योपयोगइहापिवक्तव्यः।