SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३० कुवलयानंदः . संधिविग्रहममाणेति । संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेसर्थः ॥ ११३ ॥ इत्यलंकारचंद्रिकायां कल्पालंकारः ॥ बहूनांयुगपद्भावभाजांगुंफःसमुच्चयः ॥ नश्यं तिपश्चात्पश्यंतित्रस्यंतिचभवद्विषः ॥११॥ अविरोधेनसंभावितयोगपद्यानांनाशादीनांगुंफनसमुच्चयः । यथावा ॥ बिभ्राणाहृदयेत्वयाविनिहितंप्रेमाभिधानंनवंश ल्ययद्विदधातिसाविधुरितासाधोतदाकर्ण्यत॥शेतेशुष्यतिता म्यतिप्रलपतिप्रम्लायतिखतिभ्राम्यत्युल्लुठतिप्रणश्यतिगल त्युन्मूर्च्छतित्रुट्यति॥अत्रकासांचिक्रियाणांकिंचित्कालभेद संभवेपिशतपत्रपत्रशतभेदन्यायेनयोगपद्यंविरहातिशयद्योत नायविवक्षितमितिलक्षणानुगतिः ॥ ११४ ॥ बहूनामिति । युगपद्भावोभवनंतदाजांबहूनांगुंफोनिबंधोवर्णनमितियावत् ससमु म्चयालंकारः । विभ्राणेति । नायकंप्रतिदूसाइमुयक्तिः । हेसाधोखयाहृदयेविनिहितं प्रेमाभिधानंनवंशल्यंधारयेतीविधुरिताविरह विव्हलासानायिकायद्विदधातितदाकर्ण्य तामित्यन्वयः । किंतदित्यपेक्षायामाह । शेतेनिद्राति । ताम्यतिग्लानिंप्राप्नोति । प्र कर्षणम्लायति । खतिचलति । प्रणश्यति नैर्बल्यातिशयेनमृतप्रायाभवति । गल ति खेदातिशयात् ।त्रुट्यति क्षीणाभवतीति कासाचित्शयनभ्रमणादीनां । शतपत्र स्यकमलस्य पत्रशतंदलशतं ॥ ११४॥ अहंप्राथमिकाभाजामेककार्यान्वयेपिसः॥ कु लंरूपंवयोविद्याधनंचमदयंत्यमुम् ॥ ११५ ॥ येत्रैकःकार्यसिद्धिहेतुत्वेनप्रक्रांतस्तत्रान्येपियद्यहमहमिकया खलेकपोतन्यायेनतत्सिद्धिंकुर्वतिसोपिसमुच्चयः।यथामदेआ भिजात्यमेकसमग्रंकारणन्ताहगेवरूपादिकमपितत्साधनत्वे नावतरतीति। यथावा॥प्रदानंप्रच्छन्नंगृहमुपगतेसंभ्रमविधि निरुत्सेकोलक्ष्म्यामनभिभवगंधाःपरकथाः ॥ प्रियंकत्वामौनं सदसिकथनंचाप्युपकृतेःश्रुतेत्यन्तासक्तिःपुरुषमभिजातंकथ यति ॥ ११५॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy