________________
चंद्रिका समेतः
विशेषः सोपियद्येकंवस्त्वनेकत्रवर्ण्यते ॥ अं तर्बहिः पुरः पश्वात्सर्वदिक्ष्वपिसैव मे ॥ ९९ ॥ यथावा ॥ हृदयान्नापयातोसिदिक्षु सर्वासुदृश्यसे ॥ वत्सराम गतोसीतिसंतापेनानुमीयसे ॥ ९९ ॥
१२३
प्रभेदतरमाह । यदीति ॥ ९९ ॥
11
॥
॥
किंचिदारंभ तोशक्यवस्त्वंतरकृतिश्वसः ॥ त्वां पश्यतामयालब्धंकल्पवृक्षनिरीक्षणं ॥ १००॥ यथावा ॥ स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वांसृजतानवद्यवि द्यं॥विधिनाससृजेनवोमनोभूर्भुविसत्यंसविता बृहस्पतिश्च ॥ अत्राद्येराजदर्शनारंभेणकल्पवृक्षदर्शन रूपाशक्यवस्त्वंतरक
तिः । द्वितीयेराजसृष्ट्यारंभेणमनोभवादिसृष्टिरूपाशक्यव स्त्वंतरकृतिः ॥ १०० ॥
तृतीयंप्रकारमाह । किंचिदिति । किंचित्पदार्थारंभेणाशक्यस्य वस्त्वंतर स्यकृतिः करणंचसविशेषः । नामितिप्रभुं प्रतियाचकोक्तिः । स्फुरदिति । उत्कटः प्रतापरू पोज्वलनोनिर्यस्येत्यर्थः । उक्तविशेषणंबांसृजता विधिनाभुवि नवोमनोभवादिः ससृजे सृ ष्टइतिसत्यमित्यन्वयः । अत्रचोक्तभेदत्रयान्यतमत्वं सामान्यलक्षणंबोध्यं ॥ १०० ॥ इ सलंकारचंद्रिकार्याविशेषालंकारः ॥
स्याद्व्याघातोन्यथाकारितथाकारिक्रियेतचेत् ॥
यैर्जगत्प्रीयते हंतितैरेवकुसुमायुधः ॥ १०१ ॥ यद्यत्साधनत्वेनलोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनंक्रियेतचे त्सव्याघातः। यद्वा । यत्साधनतयाकेनचिदुपात्तं तदन्येन तत्प्र तिद्वंद्विनातद्विरुद्धसाधनंक्रियेतचेत्सोपिव्याघातः । तत्राद्यउ दाहृतः। द्वितीयो यथा ॥ शादग्धंमनसिजंजीवयंतिदृशैवयाः॥ विरूपाक्षस्यजयिनीस्ताः स्तुवेवामलोचनाः ॥ १०१ ॥
स्यादिति । तथाकारितत्कार्यसाधनवस्तु अन्यथाकारितत्कार्यविरुद्धकार्यसाधनं चेत्क्रियेत तदाव्याघातोऽलंकारःस्यादिसर्थः । यैरिति । यैः कटाक्षविभ्रमादिभिर्जगत्मी यते संतुष्यतितैरेव कुसुमायुधोहंतीत्यन्वयः । विरूपाक्षस्यहरस्य । जयिनीर्विजयका रिणीः । स्तुवेस्तौमि ॥ १०१ ॥