SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १२१ माशंक्याह । अत्रेति । नचापाप्रस्तुतप्रशंसाशंकनीया । प्रस्तुतस्याप्यभिधानादि ति। इत्थंचाधाराधेयान्यतरस्यतनोरप्याधिक्यवर्णनमितिसामान्यलक्षणंबोध्यं ॥१५॥ इसलंकारचंद्रिकायामधिकालंकारः ॥ अल्पंतुसूक्ष्मादाधेयाद्यदाधारस्यसूक्ष्मता ॥ म णिमालोमिकातेऽद्यकरेजपवदीयते ॥ ९६ ॥ अत्रमणिमालामयोर्मिकातावदंगुलिमात्रपरिमितत्वात्सूक्ष्मा साऽपिविरहिण्याःकरेकंकणवत्प्रवेशितातस्मिन्जपमालावल्लं बतइत्युक्त्याततोऽपिकरस्यविरहकार्यादतिसूक्ष्मतादर्शिता। यथावा ॥ यन्मध्यदेशादपितेसूक्ष्मंलोलाक्षिदृश्यते ॥ मृणाल सूत्रमपितेनसमातिस्तनांतरे ॥ ९६ ॥ अल्पमिति । यदितिसामान्येनपुंसकं । स्वापेक्षयासूक्ष्मादाधेयादाधारस्यसूक्ष्मता यत्तदल्पनामालंकारः। मणीति। मणिपंक्तिरूपाऊर्मिकाअंगुलीयकंतेकरेअद्यविरहाव स्थायांजपमालायतइत्यर्थः । वटशब्दस्यगुटिकापर्यायत्वात् । अतिसूक्ष्मता आधे यभूतमालापेक्षयापिसूक्ष्मता । यदिति । हेचंचलाक्षितवमध्यभागादपियत्सूक्ष्मदृश्य तेतवमृणालसूत्रमपितवस्तनयोरंतरेमध्येनमातीत्यन्वयः ॥९६॥ इसल्पालंकारः ॥ अन्योन्यनामयत्रस्यादुपकारःपरस्परं ॥ त्रिया माशशिनाभातिशशीभातित्रियामया ॥९७॥ यथावा। यथोर्ध्वाक्षःपिबत्यंबुपथिकोविरलांगुलिः॥ तथाप्रपा पालिकापिधारांवितनुतेतर्नु ॥अत्रप्रपापालिकायाःपथिकेन स्वासत्यापानीयदानव्याजेन बहुकालं स्वमुखावलोकनमशि लषंत्याविरलांगुलिकरणतश्चिरंपानीयदानानुवृत्तिसंपादनेनो पकारःकृतः। तथाप्रपापालिकयापिपानीयपानव्याजेनचिरंव मुखावलोकनमभिलषतःपथिकस्यधारातनूकरणतश्चिरंपानी यपानानुवृत्तिसंपादनेनोपकारःकृतः। अत्रोभयोापाराभ्यां स्वस्वोपकारसद्भावेपिपरस्परोपकारोपिननिवार्यते ॥ ९७॥ अन्योन्यमिति । यत्रपरस्परमुपकारःस्यात्तत्रान्योन्यनामालंकारः । त्रिया मारात्रिः । यथेति । ऊर्ध्वाक्षऊर्ध्वनयनः । प्रपापलिकाप्रपादानाविकृताकाचि द्वनिता । धारांजलधारां । तनुंसूक्ष्मां । अमेति । प्रपापालिकायापथिकेनो
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy