SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२० कुवलयानंदः मिति मलिनीकर्तुमित्यर्थः । विमलयति निर्मलीकरोति । जगतित्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९२ ॥ इतिविचित्रालंकारः अधिकंष्टथुलाधारादाधेयाधिक्यवर्णनं ॥ ब्र ह्मांडानिजले यत्रतत्र मांतिनतेगुणाः ॥ ९४ ॥ अत्रयत्रमहा जलौघेऽनंतानिब्रह्मांडानि बुहुदकल्पानीत्याधार स्यातिविशालत्वं प्रदर्श्य तत्रनमांतीत्याधेयानां गुणानामाधि क्यंवर्णितं । यथावा ॥ युगांतकालप्रतिसंहृतात्मनोजगतिय स्यांसविकाशमासत॥तनौममुस्तत्रनकैटभद्विषस्तपोधनाभ्या गमसंभवामुदः ॥ ९४ ॥ अधिकमिति पृथुलादाधेयापेक्षयाविशालादाधारादाधेयस्याधिक्यवर्णनमेको धिकालंकारः । युगांतेति । युगांतकालेप्रलयेप्रतिसंहृतः स्वस्मिल्लयंप्रापितआत्मा स्त्रविलासरूपःप्रपंचोयेनतादृशस्यकैटभद्विषः श्रीकृष्णस्य यस्यांतनौजगंतिभुवनानिवि काशसहितंयथास्यात्तथा आसतस्थितानि तत्रतस्यांत नौतपोधनस्य नारदस्याभ्यागमा त्संभवो यासांता मुदःप्रीतयोनममुरित्यन्वयः ॥ ९४ ॥ पृथ्वाधेयाद्यदाधाराधिक्यंतदपितन्मतं ॥ किय द्वाक्ब्रह्मयत्रैते विश्राम्यंतिगुणास्तव ॥ ९५ ॥ 'अत्रैतइति प्रत्यक्षदृष्टमहावैभवत्वेनेोक्तानां गुणानां विश्राम्य तीत्यसंबाधावस्था नोक्त्याधारस्यवाग्ब्रह्मणआधिक्यं वर्णितं । यथावा ॥ अहो विशालंभूपालभुवनत्रितयोदरं ॥ मातिमातुम शक्योपियशोराशिर्यदत्रते । अत्रयद्यप्युदाहरणइयेपिकिय arraत अहोविशालमितिचाऽधारयोः प्रशंसा क्रियते तथा पितनुत्वेन सिद्धवत्कतयोः शब्दब्रह्मभुवनोदरयोर्गुणयशोरा त्यधिकरणत्वेनाधिकत्वंप्रकल्प्यैवप्रशंसा क्रियतइतितत्प्रशं साप्रस्तुत गुणयशोराशि प्रशंसाया मेवपर्यवस्यति ॥ ९५ ॥ पृथ्विति । विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकं । कियदिति अपरि मितमित्यर्थः । वाक्शब्द एवब्रह्म इयंचपरमेश्वरंप्रतिभक्तस्योक्तिः । असंबाधेति । असं 1 कटेत्यर्थः । अहोइति । मातिसंमाति । मातुमशक्योऽपरिमितः । अत्रभुवनत्रयोदरे । न ''न्वाधारयोः शब्दब्रह्मभुवनोदर योरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदा धिक्यवर्णनमयुक्त मि
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy