________________
कुवलयानंदः
साच्चतद्विषयादितिसूत्रेणइवेप्रतिकृतावित्यधिकारस्थेनछप्र त्ययः । तथाचपतनदलितंतालफलंयथा का केनोपभुक्तमेवं रहोदर्शनक्षुभितहृदयातन्वीस्वेनोपभुक्तेतितदर्थः । ततश्चात्र काकागमनतालपतनसमागमरूपस्यका ककृततालफलोपभो गरूपस्यचोपमानस्यानुपादानात्प्रत्ययार्थोपमायामुपमान लोपः । समसार्थोपमायांवाचकोपमानलोपः । सर्वो प्ययलोपश्छप्रत्ययविधायकशास्त्रकृतः । अवितर्कितसंभव मितिसाधारणधर्मस्यानुपादाने प्रत्ययार्थोपमायधर्मोपमान लोपः । समासार्थोपमायाधर्मोपमानवाचकलोपइतिसूक्ष्म यादृष्ट्यावधारितव्यम् । एतेषामुदाहरणांतराणिविस्तर भयान्न लिख्यन्ते ॥ ७॥ ८ ॥ ९॥
पूर्णायामुपमानादिसमग्रतानियमप्रसिद्धेस्तद्विपरीतायां लुप्तोपमायां सर्वलोपनियमा शंकानिरासायलक्षणपूर्वकंतांविभजते वर्ण्यसादिना । चकारोवा शब्दार्थे । तदनंतरंच. लोपेइत्यध्याहार्यं । एवंचेतरेतरयोगा विवक्षयावयस्योपमानस्यधर्मस्योपमावाचकस्यवा लोपेअन्यतमानुपादाने लुप्तोपमा । साचएक द्वित्र्यनुपादानैरष्टधाभिन्निति पूर्वापराभ्यामु क्तंभवति । तडिदिखाद्युदाहरणानि । अर्थतोव्याचष्टे । उपमेयादीनामिति । व स्तुतोलाघवात्पूर्णाभिन्नत्वं लक्षणंबोध्यम् । लक्षणवाक्यगतंत्रममुपेक्ष्योदाहरणक्रमा नुसारेण विभागं दर्शयतियथेत्यादि । वाचकलुप्तेति । वाचकचात्रानुपूर्वी विशेषवत्त योपमाबोध निरूढत्वम् । तच्चशक्तचानिरूढलक्षणयावा । तत्राद्यमिवादेर्द्वितीयंतु सुहृत्पदादेरितितदभावात्तडिद्गौरीसादौवाचकलोपः । समासानुशासनेननिरूढ लक्ष णावगमेप्यानुपूर्वीविशेषवत्तयाशब्द विशेषस्यतद् बोधनात् । शास्त्रकृतइतिशास्त्रप्रयु क्तइत्यर्थः । कर्पूरंतीसत्रेति । अत्रसर्वप्रातिपदिकेभ्यः किप्वा वक्तव्यइत्यनेन विहितः किप्लुप्तोपिस्मर्यमाणोधर्ममात्ररूपमाचारंबोधयति । कर्पूरपदंचलक्षणयाकर्पूरसाह श्यम् । तस्यचातिरिक्तत्वे पूर्ववत्प्रयेाजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वेत्वभेदेन । वस्तुतस्तु किलो पाप्रतिसंधानेपितथा बोधात्कर्पूरादिशब्दाएव कर्पूरादिसादृश्यप्रयोज काभिन्नंतत्सादृश्याभिन्नंवाचारंलक्षयंतीतियुक्तम् । ननु वाचकस्येवादेरनुपादानाल्लो पोयुक्तः । साधारणधर्मस्यत्वाचाररूपस्य किंबुपात्ततयाकथलोपस्तत्राह । कर्पूरव दानंदात्मका चारार्थस्य क्किपइतिकर्पूरस्येवेतीवार्थेवतिः । आनंदात्मकोजनकता संबंधे