SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ .. चंद्रिकासमतः ल्यास्याकर्पूरंतीदृशोर्मम ॥ कात्यास्मरवधूयंतीदृष्टा तन्वीरहोमया॥८॥ यत्तयामेलनंतत्रलाभोमेयश्रत द्रतेः ॥ तदेतत्काकतालीयमवितर्कितसंभवं ॥ ९॥ उपमेयादीनांचतुर्णामध्येएकस्यद्वयोस्त्रयाणांवाप्रतिपादकश ब्दाभावेनलुप्तोपमेत्युच्यते । साचाष्टधा । यथा । वाचकलु प्ता १ धर्मलुप्ता २ धर्मवाचकलुप्ता ३ वाचकोपमेयलु प्ता ४ उपमानलुप्ता ५ वाचकोपमानलुप्ता ६ धर्मोपमा नलुप्ता ७ धर्मोपमानवाचकलुप्ताचेति ८। तत्रोपमानलोप रहिताश्चत्वारोभेदास्तडिद्गौरीत्यादिश्लोकेनप्रदर्शिताः । त द्वतोभेदाउत्तरश्लोकेनदर्शिताः। तत्रतडिगौरीत्यत्रवाचकलो पस्तडिदिवगौरीत्यर्थेउपमानानिसामान्यवचनैरितिसमास विधायकशास्त्रकतः । इंदुतुल्यास्येत्यत्रधर्मलोपःसत्वैच्छि कोनशास्त्ररूतः । कात्याइंदुतुल्यास्येत्यपिवक्तुंशक्यत्वात् । कर्पूरंतीत्यत्रधर्मवाचकलोपः । कर्पूरमिवाचरंतीत्यर्थेविहित स्यकर्पूरवदानंदात्मकाचारार्थकस्य विपइवशब्देनसहलोपा त् । अत्रधर्मलोपऐच्छिकः । नयनयोरानंदात्मकतयाकपरं तीतितदुपादानस्यापिसंभवादिति । कांत्यास्मरवधूयंतीत्य त्रवाचकोपमेयलोपः । अत्रकांत्यतिविशेषणसामर्थ्यात्स्वा त्मानंकामवधूभिवाचरंतीत्यर्थस्यगम्यमानतयास्वात्मनउप मेयस्यसहोपमावाचकेनानुपादानात्सत्वैच्छिकः । स्वात्मा नंस्मरवधूयंतीत्युपमेयोपादानस्यापिसंभवात् । काकताली यमित्यत्रकाकतालशब्दोवृत्तिविषयेकाकतालसमवेतक्रिया वर्तिनौ । तेनकाकागमनभिवतालपतनमिवकाकतालमिती वार्थेसमासाचतद्विषयादितिज्ञापकात्समासः । उभयत्रोप मेयंस्वस्यकचिद्गमनंतत्रैवरहसितन्व्याअवस्थानंच । तेनस्व स्यतस्याश्चसमागमःकाकतालसमागमसदृशइतिफलति।त तःकाकतालमिवकाकतालीयमितिद्वितीयस्मिन्निवार्थेसमा
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy