________________
११२
कुवलयानंदः विषममिति । परस्परमानुरूप्यरहितयोःपदार्ययोर्वत्रघटनासंबंधोवर्ण्यतेतत्रविषम नामालंकारः। संबंधश्वसंयोगादिः। उत्पाद्योत्पादकभावश्चेतिसर्वप्रकारसाधारणमेत लक्षणंबोध्यं । अभिलषसीति । अंकंकलंक संक्षालय प्रक्षालय अथप्रक्षालनानंतरं । नोचेत्तस्यामुखंक खक इतिवदे यन्वयः । वस्तुसतीवस्तुगसा विद्यमाना। चंद्रेति।चंद्रश्च वदनलक्ष्मीश्चतयोरियर्थः। विरूपकार्यस्येति । कारणविलक्षणस्वरूपस्येसर्थः ॥८७॥
विरूपकार्यस्योत्पत्तिरपरंविषमंमतं ॥ की
तिप्रसूतेधवलांश्यामातवकृपाणिका॥ ८८॥ अत्रकारणगुणप्रक्रमेणविरुद्धाच्छ्यामाधवलोत्पत्तिः । कार्य कारणयोर्निवय॑निवर्तकत्वेपंचमीविभावना। विलक्षणगुण शालित्वेत्वयंविषमइतिभेदः॥ कृपाणिका खड्गः । प्रक्रमेणेति । प्रक्रमः परिपाटी स्वसजातीयकार्यगुणोपाद कवरूपाविरुद्धाकार्यसंपत्तिरितिपंचमविभावनाप्रकारेणाभेदमाशंक्याह कार्येति । अयंविषमउक्तविषमालंकारप्रभेदः ॥ ८८ ॥
अनिष्टस्याप्यवाप्तिश्चतदिष्टार्थसमुद्यमात् ॥ भ
क्ष्याशयाहिमंजूषांदृष्ट्वाखुस्तेनभक्षितः ॥ ८९॥ इष्टार्थमुद्दिश्यकिंचित्कारब्धवतोनकेवलमिष्टस्याऽनवाप्तिः किंतुततोनिष्टस्यापिप्रतिलंभश्चेत्तदपिविषमं ।यथाभक्ष्यप्रेप्स यासर्पपेटिकांदृष्ट्वाप्रविष्टस्यमूषकस्यनकेवलंभक्ष्यालाभः किं तुस्वरूपहानिरपीति । यथावा ॥ गोपालइतिकृष्णत्वंप्रचुर क्षीरवाच्छया।श्रितोमातृस्तनक्षीरमप्यलभ्यंत्वयारुतं ॥इद मर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तावनिष्टप्रतिलंभेचोदा हरणं । अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्तदुभयंयथादिवि श्रितवतश्चंद्रसैहिकेयभयाद्भुवि शशस्यपश्यतन्वंगिसाश्रयस्य ततोभय॥अत्रनकेवलंशशस्यस्वानर्थपरिहारानवाप्तिः किंतुसा श्रयस्याप्यनर्थावाप्तिरितिदर्शितापरानिष्टप्रापणरूपेष्टार्थसमु द्यमात्तदुभयंयथा॥दिधक्षन्मारुतेर्वालंतमादीप्यदशाननः॥