SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः अन्यत्रकरणीयस्य ततोन्यत्रकृतिश्चसा ॥ अन्यत्कर्तुप्रवृत्त स्यतद्विरुद्धकृतिस्तथा ॥ ८५ ॥ अपारिजातांवसुधां चिकीर्ष न्द्यतिथाकृथाः ॥ गोत्रोद्धारप्रवृत्तेोपिगोत्रोद्भेदं पुराकरोः ८६ अत्रकृष्णंप्रतिशक्रस्यसोपालंभवचनेभुविचिकीर्षिततयातत्र करणीयमपारिजातत्वंदिविकृतमित्येकासँगतिः। पुरागोत्राया उद्धारेप्रवृत्तेन वराहरूपिणातद्विरुद्धंगोत्राणांदलनं खुरकुट्टनैः कृतमितिद्विविधापिश्लेषोत्थापिता । यथावा ॥ त्वत्खडुखंडि तसपत्नविलासिनीनां भूषाभवत्यभिनवाभुवनैकवीर ॥ नेत्रेषु कंकणमथेोरुषुपत्रवल्लीचोकेंद्र सिंह तिलकंकरपल्लवेषु ॥ मोहं जगत्रयभुवामपनेतुमेतदादायरूपमखिलेश्वरदेहभाजां ॥निः सीमकांतिरसनीरधिनामुनैवमोहंप्रवर्धयसि मुग्धविलासिनी नां ॥ अत्राद्योदाहरणेकंकणादीनामन्यत्रकर्तव्यत्वंप्रसिद्ध मि तिनोपन्यस्तं । भवतिनाभावनारूपा अन्यत्रकृतिराक्षिप्यत तिलक्षणानुगतिः ॥ ११० अन्यत्रेति । अन्यत्रकर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणेयाकृतिःकरणंतदप्य संगतिरित्यनुषज्यते । तथाअन्यत्कार्यकर्तुमवृत्तस्य तद्विरुद्ध कार्यकरणंतृतीया असंगतिः। अपगतमरिजातं यस्यास्तां द्यांस्वर्गं । तथापारिजाततरुरहितां अकृथाः कृतवान् । एवंगोत्रायाः पृथिव्याउद्धारायपुरावराहावतारेप्रवृत्तोपितंगोत्राणांपर्वतानामुद्भेदंदल नमकरोः कृतवानित्यर्थः । श्लेषोत्थापिताश्लेषमूलकाभेदाध्यवसायोत्थापिता । य थावेति । हेभुवनैकवीर चोलदेशाधिपसिंहसदृश तवखड्गेनखंडितायेसपत्नाः शत्र वस्तद्विलासिनीनामभिनवाअदृष्टपूर्वाभूषाभूषणानिभवंति । यथानेत्रेषुकंकणं जलकण मेव कंकणंवलयं भवतीसनुषंगः। अथेतिसमुच्चये । ऊरुषुचपत्रयुक्तावल्ली सैवपत्रिका रचना । करपल्लवेषुतिलयुक्तं कंजलमेवललाटभूषणमिति । मोहमिति । हे अखिलेश्वरजगञ्जय वर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमादायमर्यादातिक्रांतकांतिरूपरसस मुद्रेणामुनैवरूपेण सुंदर स्त्रीणांमोहंप्रवर्द्धयसीसन्वयः । अत्रेति । अनयोर्मध्यइयर्थः । आद्योदाहरणेइतिलक्षणानुगतिरित्यन्वयः । भवतिनाभवत्यर्थेनभवनेनेतियावत् । भावनारूपाभवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्रकरणीयस्येत्याद्यसंगतिप्रकार द्वर्यांतरकथनमयुक्तं । अपारिजातामित्युदाहरणेपारिजातराहित्यचिकीर्षारूपकारण
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy