SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १०९ स्तृष्णातरलितमनोभिर्जलनिधिः॥ कएवंजानीतेनिजकरपुटी कोटरगतक्षणादेनंताम्यत्तिमिमकरमापास्यतिमुनिः ॥ ८३ ॥ असंभवइति । कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयत्खवर्णनमसंभवोनामालंका रः । गोपशिशुको गोपालबालकः । निंदायस्वार्थे वाकमययः । उत्पाटयेदुद्धरेत् । अयमिति । वारांजलानां निलयः स्थानं तृष्णापिपासाअर्थाभिलाषश्च तरलितंचंच लीकृतं श्रितअश्रितः मुनिरगस्त्यः एनंसमुद्रंक्षणात् आसमंतात्पास्यतिइदंकोजानीतइ सन्वयः । कीदृशं । निजकर पुटीकरसंपुटमेव कोटरंबिलंतद्गतं । तथाताम्यतोग्लायं तस्तिमयोमत्स्यामकराश्चयस्यैवंभूतमित्यर्थः ॥ ८३ ॥ इयसंभवालंकारप्रकरणम् ॥ विरुद्धभिन्नदेशत्वंकार्यहेत्वोरसंगतिः ॥ विषं जलधरैः पीतं मूर्च्छिताः पथिकांगनाः ॥ ८४ ॥ ययोः कार्यहेत्वोर्भिन्नदेशत्वंविरुद्धं तयोस्तन्निबध्यमान मसंग त्यलंकारः । यथात्रविषपानमूर्च्छयोर्भिन्नदेशत्वं । यथावा ॥ अ होखलभुजंगस्यविचित्रोयंवधक्रमः॥अन्यस्यदशतिश्रोत्रमन्यः प्राणैर्वियुज्यते ॥ क्वचिदसंगतिसमाधान निबंधनेनचारुतातिश यः । यथावा ॥ अजस्रमारोहसिदूर दीर्घा संकल्पसोपानततिं तदीयां ॥श्वासान्सवर्षत्यधिकं पुनर्यद्धयानात्तवत्वन्मयतामवा प्य ॥ विरुद्धमितिविशेषणाद्यत्रकार्यहेत्वोर्भिन्नदेशत्वं नविरुद्धं तत्रनासंगतिः । यथा ॥ भ्रूचापवल्लीं सुमुखी यावन्नयतिवक्रतां ॥ तावस्कटाक्षविशिखैर्भिद्यते हृदयंमम ॥ ८४ ॥ विरुद्धिमिति । अदृष्टमित्यर्थः । भिन्नदेशत्वं भिन्नाधिकरणत्वं । विषंजलंहालाह लंच । संगतस्यभावःसांगत्यं तदभावोऽसांगत्यं । अजस्रमिति । दमयंतीं प्रतिहंसो क्तिः हेदमयंतिवंतदीयांनलसंबंधिनीं दूर मत्यंतं दीर्घा संकल्प मनोरथस्तद्रूपसोपानपरं परामजस्रं निरंतरमारोहसि । सपुनर्नलोऽधिकं श्वासान् वर्षतिमुंचतीतियत्तत्तवध्याना त्वन्मयतांत्वत्स्वरूपतामवाप्येत्यन्वयः । अत्रचतुर्थपादेनासंगतिसमाधानं । भ्रूचापे ति । चापवल्लीं स्वरूपधनुर्लतां । यावदितिपरिमाणार्थं । वक्रतांनयति आक र्षतीतियावत् । तावत्परिमाणं हृदयंभिद्यतइयर्थः । अत्रहृदयभेदधनुराकर्षणयोः कार्य कारणयोभिन्नदेशस्त्रमेवदृष्टमितिनासंगतिरलंकारः ॥ ८४ ॥ 1
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy