________________
कुवलयानंदः
णांतरंयस्यामितिव्युत्पत्तेः । कारणाभावश्च शाब्द आर्थोवेतिसर्वत्र लक्षणसमन्वयो बोध्यः । एतदेवतंत्रेण सकल विभावनाप्रकारसाधारणंसामन्यलक्षणमाद्यप्रकार विशे षलक्षणंच बोध्यं । तत्राद्यंदर्शितमेव । द्वितीयंतुकारणान्विताभावकथनपूर्वकंकार्योत्प त्तिकथनमित्युदाहरण विशेषबल | देवगम्यतइतिविविच्यनदर्शितं । प्रतिबंधकेसतिका र्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वारणायान्वितेति । तत्रप्रतिबंधकस्यवस्तुतः कार णाभावरूपस्यकथने पिकारणान्वितत्वेनकथनमितितन्निरासः । प्रकार पंचके पिकार णान्विताभावस्यार्थतोगम्यत्वात्कथनेति । अप्यलाक्षेति । लाक्षारसेन आसमंतात्सिक्तं लाक्षारसासिक्तं पश्चान्नञ्समासः । तस्याःकामिन्याः । अपीतेति । अपीताः पानशून्याः । क्षीबामत्ताः कादंबाः कलहंसायत्र । तथा असंसृष्टंसंमार्जनशून्य ममलमंबरमाकाशयत्र । ए वमप्रसादितं वस्त्रगालनकतकक्षोदप्रक्षेपादिनायत्प्रसादनं तच्छून्यं सूक्ष्म लघ्वंबुयत्र । एवं भूतंजगन्मनोहरमासीदित्यन्वयः । परमार्थतस्तुशुद्धां ब्विसेवकाव्यादर्शेदृष्टः पाठः । वि भाव्यमानेति । वर्ण्यमानेसर्थः । वरेति । वरतनोः केशपाशरचनासंपादकेनातएव सुरभिनखेन राज्ञोहस्तेनावचितकुसुमालून पुष्पापिलतावृंतासक्त भ्रमरासंजातेसर्थः । ७६
१०६
हेतूनामसमग्रत्वे कार्योत्पत्तिश्वसामता ॥ अस्त्रे रतीक्ष्णकठिनैर्जगज्जयतिमन्मथः ॥ ७७ ॥ अत्रजगज्जयेसाध्येहेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुण वैकल्यं । यथावा ॥ उद्यानमारुतोद्धूताश्रूतचंप करेणवः ॥ उ दस्त्रयंतिपांथानामस्पृशंतोविलोचने॥ अत्रबाष्पोद्गमनहेतूना मसमग्रत्वंस्पर्शनक्रियावैकल्यं । इमांविशेषोक्तिरितिदंडीव्या जहार । यतस्तत्र प्रथमोदाहरणेमन्मथस्यमहिमातिशयरूपोडि तीयोदाहरणे चंपकरेणूनामुद्दीपकतातिशयरूपश्वविशेषः ख्या प्यतइति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपिकारणविशे षाभावरूपमितिविभावनाप्रदर्शिता ॥
हेतुनामिति । असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्यतत्संबंधस्यवावैकल्येसति । अस्त्रैरि तिधर्मवैकल्योदाहरणं । संबंधवैकल्ये उदाहरति उद्यानेति । विलोचनेकर्मभूते उदस्र यंति उद्गताश्रूणिकुर्वतीत्यर्थः । क्रियेतिधात्वर्थत्वाभिप्रायं स्पर्शनस्यसंयोगरूपत्वात् । इमांद्वितीय प्रकाररूपांविभावनां व्याजहारेति गुणजातिक्रियादीनांयत्रवैकल्यदर्शनं ॥ विशेषदर्शनायैवसा विशेषोक्तिरिष्यते इतिग्रंथेन व्यवहृतवानित्यर्थए तेनमथमप्रकार