________________
७८
[सहोक्ति
भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये
वा व्यतिरेकः ॥ २८ ॥
अलङ्कारसूत्रं
अधुना भेदप्राधान्येनालङ्कारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति, उपमानादुपमेयस्याधिकगुत्वे न्यूनगुणत्वं वो भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणें.
।
--
"दिदृक्षवः पक्ष्मलताविलास
मक्ष्णां सहस्रस्य मनोहरं ते ।
वापीषु नीलोत्पलिनी विकासरम्यासु नन्दन्ति न षट्पदौघाः ॥ " "क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसाद सुन्दरि ! यौवनमनिवर्ति यातं तु ॥ अत्र विकस्वरनीलोत्पलिन्यपेक्षयाक्षिसहस्रस्य पक्ष्मलतौया वैलक्षण्यमधिकगुणत्वम् । चन्द्रापेक्षय च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन गतस्यापुनरागमनात् ॥
55
उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः ॥ २९ ॥
भेदो वैलक्षण्यमिति । न त्वन्योन्याभावः । आधिक्यविपर्ययौ गुणद्वारेत्याह – अधिकगुणत्व इत्यादिना । अधिकगुणत्वमिति । तच्च षट्पदानामनन्दनेन द्योतितम् । यौवनस्य न्यूनगुणत्वमिति । अत्राप्यस्थैर्यापेक्षया चन्द्राद् यौवनस्याधिक्यमिति लक्षणे विपर्ययग्रहणं न कर्तव्यमित्यन्ये । व्यतिरेके उत्कर्षापकर्षप्रतीतेर्भेदप्राधान्यं स्फुटम् ॥
१. 'वा । वि', २. 'णे', ३. 'तयाधि', ४. 'या यौ', ५. 'मात् ॥'
क. ख. पाठः.