________________
निरूपणम् ] सध्याख्यालङ्कारसर्वस्वोपेतम् । इयमपि क्वचिन्मालयापि भवन्ती दृश्यते । यथा"अरण्यरुदितं कृतं शवशरीरमुहर्तितं
स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजल्पः कृतः
कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥" क्वचित् पुननिषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः सम्बन्धानुपपत्यापि निदर्शना भवति । यथा"उत्कोपे त्वयि किञ्चिदेव चलति द्राग् गूर्जरक्ष्माभृता
मुक्ता भून परं भयान्मरुजुषां यावत् तदेणीदृशाम् । पद्भयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
क्षामाभ्यां सहसैव वन्यकरिणां कुम्भस्थलीविभ्रमः ॥" अत्र मुक्तेति निषेधपदम् । तदन्यथानुपपत्त्या पादयोहँसगतिप्राप्तिराक्षिप्यते । सा च तयोरनुपपन्ना सती सादृश्यमवगमयतीत्यसम्भवहस्तुसम्बन्धनिबन्धना निदर्शना ॥ स्मिन् वाक्यार्थे बहूनां वाक्यार्थानामध्यारोपात् । अरण्यरुदितमित्यादि । अत्राबुधजनसेवालक्षणे वाक्यार्थेऽरण्यरुदितकरणादयो बहवो वाक्यार्था आरोपिताः । न केवलं प्रतिबिम्बनस्यैव गम्यत्वं, गमकस्यापि सम्बन्धविघटन(स्यापी ? स्ये)ति दर्शयति-कचित् पुनरित्यादिना । निषेधसामर्थ्यादिति । अप्रसक्तस्य प्रतिषेधायोगात् । उत्कोप इत्यादौ नञाद्यप्रयोगान्निषेधप्रतीतिः कुतस्त्येत्यत आह-मुक्तेतीति । तदन्यथानुपपत्त्येति । अनुपात्तस्य मोक्षासम्भवात् । सा चेति । हंसगतिप्राप्तिः । तयोः शत्रुस्त्रीपादयोः । अनुपपन्ना सतीति । हंसपदयोरेवे युक्तत्वात् । सादृश्यमिति । हंसगतिसदृशी मन्दा गतिर्मुक्तेत्यर्थः । एवं शशिकान्त्यादावपि द्रष्टव्यम् ॥
१. 'पि भ', २. 'ता', ३. 'श्यं ग' क. ख. पाठः,