________________
भलारसूत्रं
[निदर्शनासम्बन्धानुपपत्तिमूला निदर्शनैव युक्ता, ने दृष्टान्तः। एवञ्च .."शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥” इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्राप्तेः । इयं चोपमेय उपमानवृत्तस्यासम्भवात् प्रतिपादिता पूर्वैः । वस्तुतस्तूपमेयवृत्तस्योपमानेऽसम्भवादपि सम्भवति, उभयत्रापि सम्बन्धविघटनस्य विद्यमानत्वात् । तद्यथा
"वियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषु ॥” अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिनः खजूरीरेणुष्वसम्भवादौपम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि सम्भवति । यथा___ "मुण्डसिरे बोरफळं बोरोवरि बोरअं थिरं धरसि ।
विग्गुच्छाअइ अप्पा णाळिअछेआ छळिजन्ति ॥" अन्यैश्च दृष्टान्तत्वेन दर्शितस्योदाहरणस्य निदर्शनात्वमेवाह-एवञ्चति । उक्तन्यायेनेति । वाक्यार्थे वाक्यार्थान्तराध्यारोपरूपत्वेन निरपेक्षत्वाभावात् । पूर्वैः उद्भटादिभिः । उपमेये इन्द्वादौ । उपमानवृत्तस्य स्मरचापलीलादेरसम्भवात् । अत्र गण्डतलमित्यादिना प्रस्तुतमर्थमुदाहरणे योजयति । शृङ्खलान्यायेन रशनाक्रमेण । मुण्डेत्यादि ।
मुण्डशिरसि बदरफलं बदरस्योपरि बदरं स्थिरं धारयसि ।
विडम्ब्यत आत्मा धूर्तच्छेकाश्छल्यन्ते । काका न छल्यन्त इत्यर्थः । अत्र छेकच्छलनं मुण्डशिरसि बदरफलधारणवद् बदरस्योपरि बदरान्तरधारणवच्चाशक्यमित्यर्थः । मालयापीति । एक
१. 'न तु द', २. 'नेऽप्यस', ३. 'त् स', ४. 'ष प्र' क. स. पाठः. ५. 'रधा' ख. पाठः.