________________
निरूपणम्] सम्याक्यालङ्कारसर्वस्वोपेतम् ।
अत्रे च स्मरचापसम्बन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसम्भवत् लीलासदृशी लीलामवगमयतीत्यदूरैविप्रकर्षाद् बिम्बप्रतिबिम्बनमुक्तम् । एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्विधा । पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा
"त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ॥" केचित् तु दृष्टान्तालङ्कारोऽयमित्यूचुः । तदसत् । निरपेक्षयोक्यिार्थयोहि बिम्बप्रतिबिम्बभावे दृष्टान्तः । यत्रं तु प्रकृतवाक्यार्थे वाक्यार्थान्तरमध्यारोप्यते सामानाधिकरण्येन, तत्र बिम्बनम् । अत्र च स्मरचापेत्यादिना वस्तुसम्बन्धस्यासम्भवं दर्शयति । लीलासदृशामित्यनेन प्रतिबिम्बनम् । ननु स्मरचापेन्दुसम्बन्धिन्योलीलयोरेकजातीयत्वेनात्यन्तभेदाभावात् कथं बिम्बप्रतिबिम्बभावः । अत आह - अदूरविप्रकर्षादिति । सत्यम् । धर्मिभेदोपाधिकं धर्मभेदमाश्रित्य बिम्बप्रतिबिम्बभाव इत्यदोषः । अथवा विशिष्टयोरिन्दुस्मरचापयोरेव बिम्बप्रतिबिम्बभावोऽवगम्यते । स कथं लीलानिष्ठत्वेनेत्याशङ्कयाह - अदूरविप्रकर्षात् । धर्मधर्मिणोरभेदोपचाराद् धर्मिगतो बिम्बप्रतिबिम्बभावो धर्मगतत्वे. नोक्त इत्यदोषः । यद्वा उपात्तयोरेव बिम्बप्रतिबिम्बभावः । अत्र चानुपात्तया इन्दुलीलया कथं बिम्बप्रतिबिम्बभाव इत्यत आह । सत्यम् । अनुपादानेऽपि गम्यमानत्वाददोषः । एषापीति । गम्यमानौपम्यालङ्कारवद् गम्यमानप्रतिबिम्बनषापीत्यर्थः । समनन्तरमिति । अव्यादित्यादाविन्दुस्मरचापलीलयोः पदार्थत्वात् । निरपेक्षयोरिति । अत्र च सापेक्षत्वं यदिदमोरुपादानात् स्फुटमेव । प्रकृतवाक्याथै अलक्तककरणके पादनखरत्नकर्मके माजने । वाक्यार्थान्तरं श्रीखण्डलेपकरणकं विधुकर्मकं पाण्डरीकरणम् । अध्यारोप्यत इति , यदिदमोरेकविषयत्वेन सामानाधिकरण्यप्रतीतेः ।
.. 'त्र स्म' मूलपाठः. २. 'र', ३. 'म्बकल्पन', ४. 'योबि', ५. 'व हिर', १. 'प्र' क. ख, पाठः.