________________
अबधारसूत्रं
[निदर्शनाकल्पयति । क्वचित् पुनरन्वयबाधादसम्भवता वस्तुसम्बन्धन प्रतिबिम्बनमाक्षिप्यते । सम्भववस्तुसम्बन्धों यथा
"चूडामणिपदे धत्ते यो देवं रविमागतम् ।
सतां कार्यातिथेयीति बोधयन् गृहमेधिनः ॥" अत्र बोधयन्निति तत्समर्थाचरणे प्रयोगात् सम्भवति वस्तुसम्बन्धः । असम्भववस्तुसम्बन्धी यथा
"अव्यात् स वो यस्य निसर्गवक्रः
स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनडोरगराजरत्न
मरीचिलीढोभयकोटिरिन्दुः ॥” सम्बन्धैवत्त्वम् । अत आह-अत्र बोधयन्नितीति । प्रयोगादिति । णिच इति शेषः । क्वचित् तु णिच इति पठ्यत एव । अयमर्थः -णिचस्तावत् प्रयोज्यविषया प्रवर्तना अर्थः । सा च प्रेषणाध्येषणतत्समर्थाचरणरूपेण त्रिधा । तत्र प्रेषणमाज्ञा । अध्येषणं प्रार्थना। तत्समर्थाचरणं चतुर्धा- अनुमतिरुपदेशोऽनुग्रह आनुकूल्याचरणं चेति । तत्र यस्यानुमतिमन्तरेणार्थो न निर्वर्तते, तस्य राजादेरनुमत्या प्रयोजकत्वं, गुरुवैद्यादेस्तूपदेशेनेष्टसाधनत्वज्ञापनापरनाम्ना । यत्र पुनः केनचिद् जिघांसितं पलायमानं कश्चिद् निरुणद्धि, निरुद्धश्च हन्यते, तत्र निरोद्धा हन्तुरनुग्रहं करोतीत्यनुग्रहेण तस्य प्रवर्तकत्वम् । कारीषोऽनिरध्यापयतीत्यादौ कारीषोऽमिनिवात एकान्ते सुप्रज्वलितः शीतकृतमध्ययनविरोधिनमुपद्रवमपनयन् असत्यामपि प्रयोज्यव्यापारोद्देशेन प्रवृत्तावध्ययन आनुकूल्याचरणेन प्रवर्तको भवति । तत्र पर्वतकर्तृकमागतस्य रवेः शिरसा धारणं गृहमेधिनां सद्विषयातिथेयी. कर्तव्यतावबोधेऽनुकूलमिति पवर्तस्यानुकूल्याचरणेन प्रवर्तकत्वमिति । अत्र शैलस्य गृहमधिषु रवेः सत्सु शिरसा धारणस्यातिथेय्याः करणे च प्रति
१. 'धो', २. 'णे णिचःप्र' ग. पाठः. ३. 'न्धो' क. ख. पाठः. ४. 'न्धत्वम्' ख. पाठः. ५. 'व' ग. पाठः.