________________
निरूपणम्] सव्याख्याकारसर्वस्वोपेतम् । अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टः, तथापि नैतन्निबन्धनमौपम्यं विवक्षितम् । यन्निबन्धनं च विवक्षित, तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा
"कृतं च गर्वाभिमुखं मनस्त्वया
किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान्
न यावदायात्युदयाद्रिमौलिताम् ॥" अत्र निहतत्वादेः स्थानादिना वैधम्र्येण प्रतिबिम्बनम् ॥
सम्भवतासम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ॥ २७ ॥
प्रतिबिम्बप्रस्तावेनास्या लक्षणम् । अत्र कचित् सम्भवन्नेव वस्तुसम्बन्धः स्वसामर्थ्याद् बिम्बप्रतिबिम्बभावं नादीत्यादिशब्देन गुरुकुलक्लिष्टत्वम् । निहतत्वादेरित्यादिशब्देन मनःकर्मकं गर्वाभिमुखीकरणं, स्थानादीत्यादिशब्देनोदयाद्रिमौलिताप्राप्त्यभावश्च गृह्यते ॥
सम्भवतेत्यादि । निदर्शनाया गम्यमानप्रतिबिम्बैनत्वं सामान्यलक्षणम् । सम्भवतेत्यादिना तस्या भेदनिर्देशः । वस्तुशब्देन पदार्थो वा. क्यार्थश्चोच्यते । गम्यमानमित्यनेन दृष्टान्ताद् व्यावृत्तिः । तत्र हि प्रकृताप्रकृतरूपयोर्वाक्यार्थयोर्विम्बप्रतिबिम्बभावरूप एव सम्बन्धः । इह तु प्रकारान्तरेण निर्दिष्टः सम्बन्धस्तदवगमयति । प्रतिबिम्बनमाक्षिप्यत इति । उपपादकतयेति शेषः । ननु चूडामणीत्यादौ बोधप्रयोजकत्वस्य चेतनधर्मत्वात् पर्वतस्य चाचेतन(धर्म?)त्वात् कुतः सम्भवद्वस्तु
१. 'म् । किन्तु य' क. ख. पाठ:. २. 'पादनम्, ३. 'म्बसा', . 'व ए' ख. पाठः.