________________
अलङ्कारसूत्र
[दृष्टान्तयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा
___ "चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि । ___आवन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥” अत्र चतुरत्वं साधारणो धर्म उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः । न केवलमियं साधर्म्यण, यावद् वैधयेणापि दृश्यते । यथात्रैवोत्तरार्धस्थाने
“विनावन्तीनं निपुणाः सुदृशो रतनर्मणि" इति पाठे॥ तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः॥२६॥
तस्यापि, न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यलक्षणो धर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । आयो यथा"अब्धिर्लवित एव वानरभटैः किन्त्वस्य गम्भीरता___ मापातालनिममपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः॥" निपुणपदेनेत्यनेन पर्यायान्तरत्वं दर्शयति । यावद् वैधयेणेति । आवन्तीव्यतिरिक्तसुदृशां नैपुणाभावेन चकोर्यपेक्षया वैधर्म्यम् ॥
प्रत्यवमृष्ट इति । पूर्वसूत्रे निर्दिष्टः । अयमपीति। न केवलं प्रतिवस्तूपमेत्यपेरर्थः । अत्र यद्यपीत्यादिना प्रतिवस्तूपमात्वमाशङ्कय परिहरति । अब्धिलङ्घनादावित्यादिशब्देन पातालनिममतनुत्वं गृह्यते, दिव्यवागुपास
1. '', . 'ए। य', ३. 'ण । य', 'क्षितो ध' - ख. पाठः.