SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ निरूपणम् सव्याख्यालकारसर्वस्वोपेतम् । _ भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वात् । प्राकरणिकाप्राकरणिकभावित्वादुपमानोपमेयभावस्य । सहार्थसामर्थ्यावुभयोस्तुल्यकक्ष्यत्वम् । तत्र तृतीयान्तस्य नियमेन गुणभावादुपमानत्वम् । अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चात्र गुणप्रधानभावः । वस्तुतस्तु विपर्यथोऽपि स्यात् । तत्रापि नियमेनातिशयोक्तिमूलत्वमस्याः । सा तु कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कादीनां भेदाद् ज्ञेयम् । तत्र कार्यकारणप्रतिनियमविपर्ययरूपा यथा "भवदपराधैः साधु सन्तापो वर्धतेतरां तस्याः।" अत्रापराधानां सन्तापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः । श्लेषभित्तिकाभेदाध्यवसायरूपा यथा सहोक्तौ तु कथमित्याह - गुणप्रधानभावेति । गुणप्रधानभावश्व क्रियाभिसम्बन्धस्य शाब्दत्वार्थत्वाभ्यामवगन्तव्यः । द्वयोरपीत्यादि । वास्तवस्यौपम्यस्य प्रकृताप्रकृतनिष्ठत्वेन सम्भवात् । वैवक्षिकस्यौपम्यस्य सद्भावे हेतुमाह - सहाथैति । यत्र खलु द्वयोर्गुणप्रधानभूतयोः समकालमेवैकक्रियाद्यनुप्रवेशः, तत्र सहार्थोन्मजनम् । वस्तुतस्त्विति । यथा'अस्तं भास्वानि'त्यादौ । अत्रास्तगमने रिपूणामेव प्राधान्यमभिहितं, तदस्तगमनस्यैव बलसंहरणे प्रधानकारणत्वात् । सा स्विति । अतिशयोक्तिः। कार्यकारणेत्यनेनातिशयोक्तेः पञ्चमप्रकारो निर्दिश्यते, अभेदाध्यवसायेति प्रथमः । श्लेषभित्तिकः श्लेषाश्रयः । कादीत्यादिशब्देन कर्मादिपरिग्रहः । १. 'यभावत्वं', २. 'द्धि तयो', ३. 'तु', v. 'ये', ५. 'वान वे', ६. निमय' क. ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy