________________
मिरूपणम् ]
यथा वा
-
सध्याख्यालङ्कारसर्वस्वोपेतम् ।
“सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लव गताम्रा
प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ "
"विसमअओ चिअ काणवि
काणवि बोळेइ अमअणिम्माओ । काणवि विसामअमओ
काणवि अविसामअम (अ) ओ काळो || "
शोभते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् । अमृतेन धुनीधवः (समुद्रः १ ) त्वया नरनाथ ! भुवनमिदम् ॥ अत्र राज्ञः प्रस्तुतत्वम् । मिहिरादीनामप्रस्तुतत्वम् । सञ्चारपूतानीत्यादि । आदिमध्यान्तवाक्यगतत्वेनेत्यादिवचनात् समानधर्मस्यादिवाक्यादिवर्तित्वमेवादिदीपकत्वादौ प्रयोजकम् । उद्भटादिभिश्च तथैवाङ्गीकृतम् । अत्र चोदाहरणे प्रचक्रम इत्यस्य श्लोकमध्यगतत्वेऽपि आदिवाक्यगतत्वादादिदीपकत्वमेव । उदाहरणान्तरोपन्यासश्च सूत्रगतबहुवचनप्राप्तस्य प्रस्तुताप्रस्तुतनिष्ठस्य बहुत्वस्यानियमप्रदर्शनार्थः । यथा वा विसमअओ चिअ इत्यादौ । यथा वेत्येतत् सञ्चारपूतानीत्यतः पूर्वं पठनीयम् । विसमअ (ओ) इत्यादि ।
R
विषमय एव केषामपि केषामप्यपक्रामत्यमृतैनिमणिः । केषामपि विषामृतमयः केषामप्यविषामृतमयः कालः ॥
✓
अत्र दुःखिनि वक्तरि विषमयकालापक्रमणस्य प्रस्तुतत्वम् । इतरेषामप्रस्तुतत्वम् । अत्र बोळेईत्यस्य मध्यवाक्यवृत्तित्वाद् मध्यदीपकम् । किवणाण इत्यादि ।
-
१. 'नुः ॥ यथा वा वि' क ख पाठः . 'तमयनि' ग. ख. पाठः. ४. 'तः का' क. पाठः.
२. 'र्थम् । य' ख. पाठः, ५. 'चो' ख. पाठः.
३.