SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ दीपक अलारसूत्रं औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकवर्गस्य मध्यादेकत्र निविष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद् दीपनाख्याद् दीपसादृश्येन दीपकाख्यालकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः। स च वास्तव एव । पूर्वत्रे तु शुद्धप्राकरणिकत्वे शुद्वाप्राकरणिकत्वे वा वैवक्षिकः, प्राकरणिकत्वाप्राकरणिकाप्रभावितत्वादुपमानोपमेयभावस्य । अनेकस्यैकक्रियाभिसम्बन्धादौचित्यात् पदार्थगतत्वोक्तिः । वस्तुतस्तु वाक्यार्थगतत्वम् । तत्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य प्रवृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । क्रमेणोदाहरणं"रेहइ मिहिरेण णहं रसेण कव्वं सरेण जोव्वणअम् । अमएण धुणीधवओ तुमए णरणाह! भुवणमिणंम् ॥" औपम्यस्य गम्यत्व इत्याद्यनुवर्तत इति । आदिशब्देन पदार्थगतत्वेनेति समानधर्माभिसम्बन्ध इति च गृह्यते । एकत्रेति । प्राकरणिके प्राकरणिके वा । दीपनाख्याद् दीपसादृश्येनेति । अनेन दीपयतीति ण्वुलि वा दीप इवेति 'संज्ञायां कन्' (५. ३. ७५) इति वा दीपकमिति निरुक्तिर्दर्शिता । घटार्थमादीपितो हि दीपः पटादीनपि प्रकाशयति । पूर्वत्र तुल्ययोगितायाम् । अनेकस्येत्यादि । 'रेहइ' इत्यादौ मिहिरादेनभःप्रभृतेश्चैकस्यों राजनक्रियायां हेतुत्वेन कर्तृत्वेन च सम्बन्धात् । औचित्यादिति । क्रियाया एकत्वेनौचित्यम् । वस्तुतस्त्विति । क्रियाया आवृत्त्यान्वयेन मिहिरहेतुकनभश्शोभनादिभिः वर्णनीयहेतुकभुवनशोभनसादृश्यस्य गम्यमानत्वात् । रेहईत्यादि। १. 'पकं सा', २. 'त्र शु', ३. 'स्वेऽपि वा', ४. 'त्वभाविश्वा', ५. 'त्वेनादि', ५. 'स्य वृ', ५. 'गानि-रे', ८. 'लो', ९. 'णम् ॥ स' क. ख. पाठ:. १०. 'ति कनि वा' क. पाठः. ११. 'घ', १२. 'स्यामध्यर' स. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy