________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । अत्र ऋतुवर्णनस्य प्रक्रान्तत्वाद् दिनानां पद्मानां च प्रकृतत्वम् । वृद्धिगमनं क्रिया । एवं गुणेऽपि । “योगपट्टो जटाजालं तारवी त्वङ् मृगाजिनम् ।
उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥" अत्रोचितत्वं गुणः । अप्राकरणिकानां यथा"धावत्त्वदश्वपृतनापतितं मुखेऽस्य ।
निर्निद्रनीलनलिनच्छदकोमलाङ्गया। भग्नस्य गूर्जरनृपस्य रजः कयापि
तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥" अत्र गूर्जरनृपं प्रति नायिकासिलतयोरपाकरणिकत्वम् । प्रमार्जनं क्रिया । गुणो यथा
"त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरता ॥” अत्र कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता ॥
प्रस्तुताप्रस्तुतयोय॑स्तत्वे तुल्ययोगिता प्रतिपाद्य समस्तत्वे दीपकमुच्यते... प्रस्तुतानामप्रस्तुतानां च दीपकम् ॥ २४ ॥ सज्जानामातपत्राणां प्रकरैरञ्चितानि, अन्यत्र सतां शोभनानां जातानां पत्राणां निकरैः । यद्यमूनीति । 'नपुंसकमनपुंसकेन-'(१. २. ६९) इत्यादिना नपुंसकत्वम् । चतुर्विधेति । गुणक्रियाविषयत्वेन प्रकृताप्रकृतनिष्ठत्वेन च ॥
१. 'क्रान्तत्व', २. 'णो', ३. 'ह', ४. 'सं', ५. 'रं प्र', . 'वे सृष्टे क', ७. 'ताप्र' क. ख. पाठः