________________
१४
अलङ्कारसूत्रं
अत्र सम्भावनया सम्बन्धः । यथावा
" दाहोऽम्भःप्रसृतिपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासाः प्रतिदीप्रदीपकलिकाः पाण्डिम्न मनं वपुः । किं चान्यत् कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥” अत्र दाहादीनामम्भः प्रसृत्याद्यैरसम्बन्धेऽपि सम्बन्धः सिद्धत्वेनोक्तः । कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात तुल्यकालत्वाद् वां । पौर्वापर्यविपर्ययों यथा—
I
[अतिशयोकि
"हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ॥” तुल्यकालत्वं यथा - “अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । अयमागतश्च कालो हन्त हताः पथिकगेहिन्यः || ”
कविसंरम्भादिति भावः । एतदर्थमेवोदाहरणान्तरोपन्यासः । 'पुष्पमित्यादेः ‘दाहोऽम्भैःप्रसृतिम्' इत्यादेश्चोदाहरणयोर्भेदं दर्शयितुम् 'अत्र सम्भावनये’ति ‘सिद्धत्वेने’ति चोक्तम् । हृदयमित्यादि । अत्र मालतीहृदयस्य वल्लकर्तुकमधिष्ठानं कारणं मदनबाणकर्तृकाधिष्ठानलक्षणात् कार्यात् चरमभावित्वेन निर्दिष्टम् | अविरलविलोलेत्यादि । अत्र वर्षाकालागमनलक्षर्णस्य कारणस्य पथिकगेहिनीहननलक्षणस्य च कार्यस्य तुल्यकालत्वं स्पष्टम् । ननु विषयविषयिणोरभेदप्रतिपत्तिरध्यवसायः । स च प्रथम एव प्रकारे सम्भवति, न त्वभेदे भेद इत्यादिप्रकारचतुष्टये । अत आह—
1
१. 'नायां स', २. 'ल', ३. 'वा । वि', ४. ए' ख. पाट:.
६. 'म्भ इ' क. पाठः. ७. ‘च’,
'ये' क. ख. पाठः ५. 'ति ।
८. 'णका' ख. पाठः.