________________
निरूपणम्] सव्याख्यालद्वारसर्वस्वोपेतम् ।
। अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदोपनिबन्धः। सम्बन्धेऽसम्बन्धो यथा"लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः
स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता.
कोऽर्थश्वेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥" अत्र लावण्यद्रविणस्य सम्बन्धेऽप्यसम्बन्धस्तन्वीलावण्यप्रकर्षप्रदर्शनार्थ निबद्धः । यथा वा"अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः __ शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥" अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्ध उक्तः । असम्बन्धे सम्बन्धो यथा
"पुष्पं प्रवालोपहितं यदि स्या
न्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद् विशदस्य तस्याँ
स्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ॥" विषयविभागेनेत्यादि । मार्गितलब्धत्वादिविषयविशेषद्वारा । अतश्चोदाहरणान्तरमुपन्यस्तमिति भावः । अस्याः सर्गविधावित्यादौ चन्द्राद्यपेक्षयासम्बन्धे सम्बन्धस्योदाहरणत्वं नाशङ्कितव्यमित्याह - अत्र पुराणेति ।
१. किं तच्चेत', २. 'तं तस्यास्त', ३. 'णव्ययस्य', ४. 'न्धो ला', ५. 'तिपादनार्थः । य', .. 'तिस', ७. 'स्य ताम्रो' क. ख. पाठः,