SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १२ . अलङ्कारसूत्रं [अतिशयोकितप्राधान्ये चातिशयोक्तिः । अस्याश्च पञ्च प्रकाराः -भेदेऽभेदः, अभेदे भेदः, सम्बन्धेऽसम्बन्धः, असम्बन्धे सम्बन्धः, कार्यकारणपौर्वापर्यविध्वंसैश्च । तत्र भेदेऽभेदो यथा "कमलमनम्भसि कमले __च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगे त्युत्पातपरम्परा केयम् ॥” अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः । अभेदे भेदो यथा"अण्णं लडहत्तण अण्णावि अ कावि वत्तणच्छाआ। सामा सामण्णपआवइणो रेहच्चिअ ण होइ ॥" अत्र ल.हत्वादीनामभेदेऽप्यन्यत्वेन भेदः। यथा वा "मग्गिअळद्धम्मि बळा___ मोडिअचुम्बिए अप्पणा अ उवणमिए । एक्कम्मि पिआहरए अण्णोण्णा होन्ति रसभेआ ॥" प्यध्यवसितशब्देन विषय्येवोच्यते विषयप्राधान्यासम्भवादित्याह- अध्यवसाय इत्यादि । अण्णं इत्यादि। अन्यत् सौन्दर्यमन्यापि च कापि वर्तनच्छाया। श्यामा सामान्यप्रजापते रेखैव न भवति ॥ अन्यत्वेन भेद् इति । अन्यत्वाभिधानमुखेनैव स्वरूपभेदः प्रत्याय्यते । मग्गिअळद्धेत्यादि । मार्गितलब्धे बलात्कारचुम्बिते आत्मना चोपनीते । एकस्मिन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाः ॥ १. 'त', २. 'सकश्च', ३. 'देऽप्यभे' ४. 'ट' क. ख. पाठा.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy