________________
निरूपणम्
सव्याख्यालङ्कारसर्वस्वोपेतम्। यथा"रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥" अत्राश्वपरिवर्तनैफलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरस्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्वेवादिशब्दवद् मन्येशब्दोऽपि प्रतिपादकः । किन्तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथोदाहृतं प्राग् “अहं विन्दु मन्ये” इत्यादि ॥
___ एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्तिं लक्षयति
अध्यवसितप्राधान्ये त्वतिशयोक्तिः ॥ २२ ॥
अध्यवसाये त्रयं भवति स्वरूप विषयो विषयी च । विषयस्य हि विषयिणा निगीर्णत्वेऽध्यवसायवरूपोत्थानम् । पत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितप्राधान्यम् । विषयप्राधान्यमध्यवसाये नैव सम्भवति । अध्यवसिरागसागरवेलाया अनुपमानत्वम् । रथेत्यादि । अत्र रविर्विषयः। परिवर्तनं विषयी । उत्तरदिग्गमनक्रिया निमित्तम् । अश्वपरिवर्तनफलस्य अश्वपरिवर्तनात्मनः फलस्येत्यर्थः । उदाहरणान्तरोपन्यासे तु निमित्तं वैचित्र्यमेव. तुमुन्वच्चतुर्थ्यपि फलत्वं द्योतयतीति दर्शयितुं वा । उत्प्रेक्षासामग्री विषयिणोऽसत्यत्वप्रतीत्यादिः । वितकमेवेति । आख्यातत्वात् ॥
अथोत्प्रेक्षानन्तरमतिशयोक्तेलक्षणीयत्वे सङ्गतिमाह-एवमित्यादिना । अध्यवसितप्राधान्ये त्विति । तुशब्देन व्यापारप्राधान्यं व्यवच्छिनत्ति । यद्यपि विषयविषयिणोरुभयोरप्यध्यवसायस्य कर्मत्वं, तथा
१. 'नस्य ', २. 'न्ये त्वदरिविरह इ', ३. 'स्य वि', ४. 'त्वेऽभ्य' क. ख. पाठः,