________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
६५
षु पञ्च भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । अत्र चातिशयाख्यं यत् फलं प्रयोजकत्वाद् निमित्तं तत्राभेदाध्यवसायः । तथाहि - "कमलमनम्भसी" त्यादौ वदना दीनां वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः । अभेदे भेद इत्यादिप्रकारेष्वव्याप्तेः । तंत्र हि "अण्णं ळडअत्तणअं" इत्यादौ सातिशयं लडहत्वं निमित्तभूतमभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात् कार्य
एषु पञ्चस्वत्यादि । लोकातिक्रान्तो गोचरो विषयो यस्य तत् लोकातिक्रान्तगोचरम् | अत्र 'चेत्यादि । फलं भेदेऽभेदादिवचनानाम् । प्रयोजकत्वात् सर्वप्रकारवर्तित्वेनानुवृत्तत्वात् फलत्वेन प्रवर्तकत्वाद्वा निमित्तम् । तत्रेत्यादि । लौकिकस्य लोकोत्तीर्णेन सहाभेदाध्यवसायविषयत्वेन विवक्षित इत्यर्थः । प्रथमप्रकारेऽप्यध्यवसायस्य न मुखकमले विषयविषयिणौ, अपि तहमे इत्याह – तथाहीत्यादि । मुखादिकमलाद्योर्विषयविषयित्वेऽनिष्टमाह - न तु वदनादीनामित्यादिनों । निमित्तभूतमिति । अभेदे भेदवचनस्य । अभेदेनाध्यवसितमिति । वास्तवलडहत्वेन । एवमन्यत्रापीति । ‘मग्गिअ' इत्यादौ सातिशयो रसः, 'लावण्ये 'त्यादौ लावण्यप्रकर्षः, 'अस्या' इत्यादौ रूपोत्कर्षः, 'पुष्पमित्यादावधर स्मितकान्तिः, 'दाह' इत्यादौ दाहादिप्रकर्षः, 'हृदयमधिष्ठितमित्यादौ 'अविरलविलोले'त्यादौ च कार्यकरणत्वे तारतम्यवत् शैघ्रयं च वास्तवै रसादिभिरभेदेना
१. 'रध्य’, २. 'अ', ३. 'णाध्य' क. ख. पाठः . ४. 'ना । अधरस्मितकान्तिरित्यत्र कान्तिशब्देन शोभाप्रकर्ष उच्यते । यदुक्तं - 'शोभैव कान्तिराख्याता मन्मथाप्यायनोज्ज्वला' इति । नि' क. पाठः. ५. 'र्षः पु' ख. पाठः. ६. ‘करत्वे' ख. ग. पाठ:.
K