________________
[उत्प्रेक्षा
५८
अलङ्कारसूत्रं
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु
१
स्थासन्ति प्रदिशन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥” अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विबित्येके' ( वा० ३. १. ११) इत्युपमानात् किन्विधावामुखे उपमाप्रतीतिः, तथाप्युपमानस्य प्रकृते सम्भवौचित्यात् सम्भावनोत्थान उत्प्रेक्षायां पर्यवसानम् । यथावा विरहवर्णने “केयूरायितमङ्गुलीयकैः ” इत्यादौ । एषापि समस्तोपमाप्रतिपादकविषयेऽपि दृश्यते । हर्षचरितवार्त्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषु उदाहृतेति इह तु ग्रन्थविस्तरभयाद् न प्रपञ्चिता । सापवोत्प्रेक्षा यथा
४
" गतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥ " अत्रेवशब्दमाहात्म्यात् सम्भावनं छलशब्दप्रयोगाच्चापह्नवो
करणक्रियात्मकं कार्यं निमित्तम् । उपमानात् विव्विधाविति । क्किप 'उपमानादाचारे' ( ३. १. १०) इति प्रकरणे विहितत्वाद् उपमानस्य कस्तूरी तिलकादेः प्रकृते सम्भवौचित्यं च फालफलकादिविषयविशेषनिवन्धनादवसेयम् । अत्र श्रीकण्ठकण्ठत्विषो विषयः । कस्तूरी तिलकादिलक्षणजातिस्वरूपं विषयी | फालादिस्थानविशेषसम्बन्धित्वे सति नैल्यं निमित्तम् | केयूरायितमित्यादि । अत्रापि क्यङामुखे उपमानप्रतीतौ सत्यामपि पूर्ववदुत्प्रेक्षात्वम् । गतास्वित्यादि । अत्र फेनततिर्विषयः । अट्टहासजातिस्वरूपं विषयी । वैत्यादिगुणो निमित्तं गम्यते । अत्र यथा द्योतकशब्दस्यावापोद्धाराभ्यामुत्प्रेक्षात्वमपहनुत्यलङ्कारत च भवति, एवं
१. 'थयन्तु', २. 'ये । ह', ३. 'भेदेषु', ४. 'ति प्र', ५. 'श्वचयते ! सा', ६. 'खं' ख. पाठ:.