________________
निरूपणम्) सव्याल्यालङ्कारसर्वस्वोपेतम् । ऽवगम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् । “अपर इव पाकशासनः” इत्यादावपरशब्दाप्रयोगे तूपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसम्भवादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षवेयम् । इवशब्दाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः। ईवापरशब्दयोरप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थितायामुत्प्रेक्षायां हेतूत्प्रेक्षायां यस्य प्रकृतसम्बन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते, स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षाया निमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा के प्रति हेतुः स्यात् । यथा-"अपश्यन्ताविवान्योन्यम्” इत्यादौ । अत्र कपोलयोः प्रकृतयोः सम्बन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च क्षामतागमनं तत्र निमित्तम् । एवम् शब्दान्तरस्याप्यावापोद्धारवशादुत्प्रेक्षात्वमलङ्कारान्तरेत्वं च भवतीति दर्शयितुमाह - अपर इवेत्यादि । अपरशब्दाप्रयोग इति । पाकशासन इव राजेत्यादौ, उपमानस्य सिद्धत्वात् । प्रकृतस्येत्यादि । स्वर्गवतिपाकशासनापेक्षयापरः पाकशासनोऽयमित्येवंरूपायाम् । इवशब्देनेति । अपरमार्थस्य परमार्थतयैव प्रतीतेः । उत्प्रेक्षैवेयमिति । द्रव्योत्प्रेक्षा । सम्पदादिलक्षणो गुणो निमित्तं गम्यते । इवशब्दाप्रयोगे सिद्धत्वादिति । अपरमार्थप्रतीत्यभावात् । अतिशयोक्तिरिति । अभेदे भेदलक्षणा । रूपकमिति । आरोपमात्रस्य प्रतीतेः । सामान्येनाभिहिते अपि निमित्तस्योपादानानुपादाने विषयविशेषेण व्यवस्थापयति - तदेवमित्यादिना । अध्यवसायवशादभिन्न इति । विरहासञ्चारप्रयुक्ते क्षाम
१. ‘ग उप', २. 'तावुत्प्रे' क. ख. पाठः. ३. 'गे तु सि' मूलपाठः. ४. 'अप', ५. 'स्याप्र', ६. 'यां य', ७. 'ति स हे', ८. 'दि ।' क. ख. पाठः. ९. 'रंच क पाठः. १०. 'प्रायते' ख. पाठः,