________________
निरूपणम्
सव्याख्यालङ्कारसर्वस्वोपेतम्। एवं वाच्योत्प्रेक्षाया उदाहरणदिग् दत्ता । प्रतीयमानोत्प्रेक्षा यथा"महिळासहस्सभरिए तुह हिअए सुहअ! सा अमाअन्ती ।
अणुदिणमणण्णअम्मा अङ्गं तणुअं पि तणुएइ ॥” इति । अमाअन्ती इत्यत्रावर्तमानेवेति तनुकरणे हेतुत्वेनोपक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । *श्लिष्टशब्दहेतुर्कों यथा -
"अनन्यसामान्यतया प्रसिद्ध
स्त्यागीति गीतो जगतीतले सः । अभूदहपूर्विकयागताना
मतीव भूमिः स्मरमार्गणानाम् ॥" अत्र धर्मविषये मार्गणशब्दः श्लिष्टः । उपमोपक्रमोत्प्रेक्षा यथा"कस्तूरीतिलकन्ति फालफलके देव्या मुखाम्भोरुहे
लोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति। त्यादि । वनान्ता विषयः । दर्शनक्रियात्मकं फलं. विषयी। विपाटनक्रिया निमित्तम् । महिलेत्यादि। .
महिलासहस्रभरिते तव हृदये सुभग! सा अमान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ।। अत्र विरहिणी विषयः । अमान्तीति क्रियाया अभावो हेतुर्विषयी । तनू
१. 'णानि दत्तानि । प्र', .. 'त्यत्र अ', ३. 'रे ज्ञे', ४. 'कोत्प्रेक्षा यथाप्रस्थे स्थितां हिमवतोऽपि न बाधते यां. मूर्धेक्षणानलभयादिव जाज्यमुद्रा ।
गोष्टीषु वः सततसन्निहितास्तु देवी सा शारदा नवसुभाषितकामधेनुः ॥ उपमोत्ने' क. ख. पाठः.
* एतदुदाहरणपाठभेदावनकिालतौ व्याख्यात्रा।