________________
अलङ्कारसूत्रं
[उत्प्रेक्षादावप्यूह्यम् । गुणस्य निमित्तत्वं यथा- "नवबिसलताकोटिकुटिलः” इत्यत्रोदाहृते कुटिलत्वस्य । क्रियाया यथा"ईदृक्षा क्षामतां गतौ" इत्यत्र क्षामतागमनस्य । एते निमित्तोपादानस्योदाहरणे । अनुपादाने "लिम्पतीव तमोऽङ्गानि" इत्यौद्युदाहरणम् । हेतूत्प्रेक्षा यथा - "विश्लेषदुःखादिव बद्धमौनम्" इत्यादौ । स्वरूपोत्प्रेक्षा यथा
"कुबेरजुष्टां दिशमुष्णरश्मो
गन्तुं प्रवृत्ते समयं विलय । दिग् दक्षिणा गन्धवहं मुखेन
व्यलीकनिःश्वासमिवोत्ससर्ज ॥" फलोत्प्रेक्षा यथा
"चोलस्य यहीतिपलायितस्य
भालत्वचं कण्टकिनो वनान्ताः। अद्यापि किं वानुभविष्यतीति
व्यपाटयन् द्रष्टुमिवाक्षराणि ॥" कपोलौ विषयः । दर्शनक्रियामावलक्षणो हेतुर्विषयी । थामतागमनक्रिया निमित्तम् । गुणस्य निमित्तत्वमित्यादि । तथा च तत्रैव दर्शितम् । कुबेरेत्यादि । अत्र गन्धवहो विषयः । निःश्वासजातिस्वरूपं विषयी । समयलङ्घनानन्तरभवनात्मकक्रियालक्षणनिमित्तं गम्यते । ‘स वः पायादि'त्यादौ जात्युत्प्रेक्षाया अयं भेदः-तत्रालङ्कारान्तरनिरपेक्षमेवोत्प्रेक्षोत्यानम् । इह तूष्णरश्मौ दिशोश्च नायकव्यवहारसमारोपलक्षणसमासोक्तिसापेक्षत्वम् । तत्र च कपालाङ्कुरलक्षणस्य विषयिणोऽत्यन्तासत्त्वम् । इह तु नैवम् । यद्वा निमित्तोपादानानुपादानवशाद् भेदः । चोलस्ये
१. 'त्युदा', २. 'ने यथा-लि', ३. 'त्युदा', ४. 'ति । स्व', ५. 'नाथों दिक. ख. पाठः.