________________
निरूपणम् ]
सम्याक्यालङ्कारसर्वस्वोपेतम् । क्वचित् पदार्थान्वयवेलायां सादृश्याभिधानादुपक्रान्ताप्युपमा
५३
वाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां
गोष्ठीषु वः सततसन्निहितास्तु देवी सा शारदा नवसुभाषितकामधेनुः ||"
इति । तत्र धर्मविषय इत्यत्र धर्मशब्देन निमित्तभूतो गुणक्रियारूपो धर्मों निर्दिश्यते विषयिभूतो वा । उभयथाप्युदाहरणं न घटते । जाड्यमुद्रेत्यत्र खलु शैत्याप्रतिपत्तिलक्षणार्थद्वयावभासात् श्लेषसम्भवः । सा च जाड्यमुद्रा न तावद् निमित्तं. हेतुत्वेनोत्प्रेक्ष्यमाणं भयं प्रति फलस्यैव बाधाभाबस्य निमित्तत्वयोगात् । नापि विषयी, भयस्यैव विषयित्वात् । विषयत्वं तु घटते । धर्मस्य तु विषयत्वं ग्रन्थकारस्याभिमतमनभिमतं वेति चिन्त्यं, 'धर्मी' धर्म्यन्तरगतत्वेने 'त्यादिना 'धर्म एव धर्म्यन्तरगतत्वेने' त्यादिना च विषयिण एव धर्मिधर्मत्वप्रतीतेः, विषयस्य धर्मित्वमात्रप्रतीतेश्च । व्यतिरितेषु चोदाहरणेषु न कचिदपि धर्मस्य विषयत्वं दृश्यते । यद्यपि 'प्रकृतस्यैतद्भेदयोगेऽपीत्यादिना जात्यादेरपि धर्मस्य विषयत्वमुक्तं, तथापि धर्मिपरतन्त्र एवं जात्यादिर्विषयो भवितुमर्हति यथा तमःप्रभृतिः, न स्वतन्त्रः । नहि धर्ममात्रस्य निमित्तभूतेन धर्मेण सम्बन्धः सम्भवति । जाड्यमुद्रायास्तु चेतनत्वारोपमन्तरेण भयं बाधकर्तृत्वं निषेध्यत्वं च तर्हि न सम्भवतीति धर्मित्वविवक्षैव युक्ता । तद्विवक्षायां च धर्मविषय इत्याद्युक्तिर्न घटते । केचित्तु जाड्यमुद्राबाधाभावं भयोत्प्रेक्षानिमित्तत्वेनोक्त्वा तत्र च जाड्यमुद्राशब्दस्य श्लिष्टत्वाद् धर्मविषय इत्यत्र धर्मशब्देन निमित्तभूतो धर्मो निर्दिश्यत इत्याहुः । एतच्च न समीचीनम् । विषयस्यानुपलम्भात् । यदि बाधकर्मत्वाभावविशिष्टा शारदा विषयः, तदा निमित्तनिमित्तिनोः फलहेत्वोर्वैयधिकरण्यं स्यात् । अथ बाधकर्तृत्वाभावविशिष्टा जाड्यमुद्रा विषयः, तदा तस्या निमित्तानुप्रवेशो न घटेत । अथवा शारदास्वभावप्रयुक्तो बाधाभावो भयहेतुत्वेनाध्यवसीयत इति तत्स्वभावस्य विषयत्वं, तदानीं विषयस्य स्वकण्ठेनानुपादानाद् 'न च विषयस्य गम्यत्वं युक्त
१. 'स्यजाण्यप्र' ख. पाठः. २. 'त्वे न' ख. ग. पाठः.