________________
मलद्वारसूत्रं
[उत्प्रेक्षातेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपेवेन षण्णवतिर्भोदाः। एषा गतिर्वाच्योत्प्रेक्षायाः । तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युदेशत एतावन्तो भेदाः, तथापि निमित्तस्यानुपादानं तस्यां न सम्भवतीति तैभैदैन्यूनोऽयं प्रकारः । इवाचनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्प्रमाणत्वात् । प्रायश्च स्वरूपोत्प्रेक्षात्र नँ सम्भवति । तदेवं प्रतीयमानोत्प्रेक्षाया यथासम्भवं भेदनिर्देशः । [ एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका कचिद् दृश्यते ।] द्रव्यलक्षणभेदयोगेऽपि । हेतुफलोत्प्रेक्षाभेदास्ततः पातनीया इति । उपलक्षणमेतत् । हेतुफलोत्प्रेक्षयोनिमित्तानुपादानभेदानां पातनीयत्वस्य हेतूोक्षायां 'यस्य प्रकृतिसम्बन्धिन' इत्यादिना फलोत्प्रेक्षायां 'यदेव तस्पे' त्यादिना च सूचयिष्यमाणत्वात् । तदेवं वाच्योत्प्रेक्षायाः षट्पञ्चाशद्भेदा व्यवतिष्ठन्ते । तथाहि-जातेस्तावत् स्वरूपोत्प्रेक्षायां भावाभावाभिमानत्वेन गुणक्रियानिमित्तत्वेन तदुपादानानुपादानाभ्यां चाष्टौ भेदाः । हेतुफलोत्प्रेक्षयोनिमित्तानुपादानस्याभावात् प्रत्येकं चत्वारो भेदा इति संहत्य षोडश भेदाः । एवं गुणक्रिययोरपि । द्रव्यस्य तु हेतुफलोत्प्रेक्षाभावादष्टभेदत्वमेवावशिष्यते । एवं षट्पञ्चाशद्भेदत्वं वान्योत्प्रेक्षायाः । यथासम्भवमिति । प्रतीयमानोत्प्रेक्षायां द्रव्योत्प्रेक्षा तावन्न सम्भवति । तत्र स्वरूपोत्प्रेक्षाया एव विद्यमानत्वात् । इह च तदभावस्य 'स्वरूपोप्रेक्षाप्यत्र न सम्भवती'त्युक्तत्वात् । जातिगुणक्रियाणां च स्वरूपोत्प्रेक्षामावेन प्रत्येकमष्टविधत्वे चतुर्विंशतिधा प्रतीयमानोत्प्रेक्षा । यथासम्भवं भेदनिर्देश इत्यस्यानन्तरं कचित् पठ्यते - एषा चार्थाश्रयापि धर्मविषये श्लिष्टशब्दहेतुका क्वचिद् दृश्यत इति । उदाहियते च ----
"प्रस्थे स्थितां हिमवतोऽपि न बाधते या
मूर्वेक्षणानलभयादिव जाड्यमुद्रा । १. 'घु प्र', २. 'पकत्वे ष', ३. 'श्च', ४. 'प्युपदेश', ५. 'नं न', ६. 'स्य च नि', ७. 'न भव' क. . पाठः. ८. 'ई' ख. पाठः.