________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
तदेवमप्रकृर्तगत गुणक्रियाभिसम्बन्धादप्रकृतत्वेन प्रकृतस्य सम्भावनमुत्प्रेक्षा । सा च वाच्या इवादिभिः प्रदर्श्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिक्रियागुणद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्धा । प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविधत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारूपत्वे षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत् प्रभेदाः । भेदावभासनपर्यन्तस्याध्यवसायस्यानिर्वृत्तेः साध्यत्वम् । इतरत्र विपर्ययेण सिद्धत्वम् । अन्ये तु असत्यत्वं चेत्यारभ्याध्यवसितप्राधान्यमित्येवमन्तं ग्रन्थमेवं व्याचक्षते । विषधिगतस्येति । विषयगतत्वे सति विषयिगतस्य, न तु विषयिमात्रनियतस्य, विषयविषयिसाधारणस्येति यावत् । धर्मस्य कौटिल्यादेः । विषयिसम्भवित्वेन विषयासम्भवित्वेन च प्रतीतेरिति । ईदृशं कौटिल्यमङ्करादावेव सम्भवति, न चन्द्रादावि त्येवंरूपायाः । अयमर्थः – विषये विषय्यध्यवसायनिमित्तभूतस्योपात्तस्य वानुपात्तस्य वा कौटिल्यादेर्विषयिण्येव सम्भवः प्रतीयते, न तु विषये । अतो निमित्ताभावान्निमित्तिनोऽपि विषयिणस्तत्रासत्यत्वं प्रतीयत इति । धर्मो गुणक्रियारूप इति । कौटिल्यादिक्षामतागमनादि यन्निमित्तं निर्दिश्यते, तद्रूपः । तस्य सम्भवासम्भवेत्यादि पूर्ववत् । असस्यत्वनिमित्तस्याभावादिति । तदभावश्च मुखादिगतत्वेन कमलाद्यध्यवसाये कस्यचिन्निमित्तत्वेनाविवक्षणाद्, विवक्षितत्वेऽप्यसम्भवप्रतीत्यभावाद्वा । अतश्चेत्यादि पूर्ववत् । तत्रेति । साध्यत्वसिद्धत्वयोर्मध्ये । फलितं दर्शयति - तदेवमित्यादिना । अङ्कुराद्यपश्यदादिगत कुटिलत्वादिगुणक्षामतागमनादिक्रियाभिसम्बन्धादङ्करादित्वेनापश्यदादित्वेन वा चन्द्रादेः कपोलादेश्च सम्भावनमुत्प्रेक्षेत्यर्थः । इवादिभिरिति । आदिशब्देन मन्ये शङ्के ध्रुवमित्यादयो गृह्यन्ते । एतदयोगेऽपीति । जातिक्रियागुण१, 'तगु', २. 'प्रकाराः । ते' क. ख. पाठः ३. 'य' ख. पाठ :.
1
- -
५१