________________
अलङ्कारसूत्रं
प्रतीतेः । धर्मो गुणक्रियारूपः । तस्य सम्भवासम्भवप्रतीतौ सम्भवाश्रयस्य तत्रापरमार्थतयासत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं, तस्य सत्यत्वप्रतीताबध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यतया प्रतीतिः । सत्यत्वं च पूर्वकस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः सम्भावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरुच्यते । नाभूतत्वाद् निमित्तस्य मौनबन्धादेर्गुणमात्रे दुःखादावसम्भवाच दुःख्योदिसामान्यमेव विषयित्वेन पर्यवतिष्ठते । गुणक्रियारूप इति । गुणो दुःखादिः । क्रिया लेपनादिः । गुणक्रियाग्रहणं चोपलक्षणम् 'अङ्कुर इव' 'चन्द्रमयीवे'त्यादौ जातिसंज्ञयोः । अथवा गुण इति सिद्धो धर्मो निर्दिश्यते, क्रियेति साध्यः । सम्भवासम्भवप्रतीताविति । विषयिविषयनिष्ठतया । तत्र सम्भवासम्भवयोर्मध्ये । सम्भवाश्रयस्य विषयिणोऽङ्कुरादेः । इतरस्यासम्भवाश्रयस्य चन्द्रादेर्विषयस्य । यस्यासत्यत्वमित्यादि । यत्तच्छब्दाभ्यां विषयी निर्दिश्यते । अतश्चेति । साध्यत्वाद् व्यापारस्याध्यवसितिक्रियात्मनः प्राधान्यम् । यथा ओदनं पचतीत्यादौ पाकादिक्रियायाः । पूर्वकस्यासत्यत्वनिमित्तस्येति । 'विषयिसम्भवित्वेने 'त्यादिना पूर्वनिर्दिष्टस्य । नह्यतिशयोक्तौ 'कमलमनम्भसी'त्यादौ विषयिगतस्य कमलत्वादेर्मुखादावसम्भवित्वं प्रतीयते । अतइचेति । अनिष्पन्नत्वहेतोर्विषय्यसत्यत्वप्रतीतेरभावात् । साध्यत्वाभावेनाध्यवसितेरप्राधान्ये तदुपसर्जनस्य विषयिण एवं प्रावान्यम् । यथा पक ओदन इत्यादावोदनादेः । एतदुक्तं भवति - उत्प्रेक्षायामतिशयोक्तौ च द्वयोरपि विषयस्य विषयित्वं प्रतिपिपादयिषितम् । तत्रोत्प्रेक्षायां प्रतिपाद्यमानमपि तदसत्यमेव प्रतीयत इति तत्र विषयविषयिणोः पारमार्थिकात्यन्ता
१. 'नि' ख., 'नादे' ग. पाठः. २. 'खा' क. ग. पाठः.
५०
[उत्प्रेक्षा
·