________________
निरूपणम् ] सव्याझ्यालद्वारसर्वस्वोपेतम्। यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे ।
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥" इति ॥
एवमभेदप्राधान्ये आरोपगर्भानलङ्काराल्लक्षयित्वाध्यवसायगर्भाल्लुक्षयति । तत्र
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ॥ २१ ॥
विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः-- साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसम्भवित्वेन विषयासम्भवित्वेन च
उत्प्रेक्षातिशयोक्त्योदित्वेऽप्यवान्तरभेदविवक्षयाध्यवसायगर्भानिति बहुवचनम् । अध्यवसाय इत्यादि । अध्यवसाय इत्यनेन रूपकादे
ावृत्तिः, व्यापारप्राधान्य इत्यनेनातिशयोक्तेः । विषयनिगरणेनेत्यादि । विषयस्य निगरणं स्वरूपतः प्रतीतितो वा । तत्र स्वरूपनिगरणमतिशयोक्तौ । उत्प्रेक्षायां प्रतीतिनिगरणम् । साध्यो यत्रेत्यादि । अस. त्यत्वेन विषयिणः प्रतीतौ विषयस्य विषयितयावभासनात्मनोऽध्यवसायस्यानिष्पन्नकल्पत्वात् साध्यत्वम् । असत्यत्वं चेत्यादि । विषयिगतस्य धर्मस्येत्यनेन व्यपदेशहेतवो जात्यादयो निर्दिश्यन्ते । तत्र संज्ञाया विषयिगतत्वं धर्मत्वं च संज्ञिनि वक्त्रों यदृच्छया सन्निवेशितत्वादवसेयम् । यद्यपि जात्युत्प्रेक्षेत्यादिना जात्यादीनामेव विषयित्वं प्रतीयते, तथापि गु. णक्रियाभिसम्बन्धस्य निमित्तस्य जात्यादातूघटमानत्वात् तदाश्रयस्यैव विषयित्वं पर्यवस्यति । ननु यत्र जात्यादयो धर्मा धर्मिपरतन्त्रतया निर्दिश्यन्ते, तत्रैवं भवतु । यत्र पुनः 'विश्लेषदुःखादि'त्यादौ धर्ममात्र निष्कृष्य विषयित्वेन निर्दिश्यते, तत्र कथम् । उच्यते । तत्रापि गुणस्य गुण्यवि
१. 'पुः ॥ ए', २. निलङ्काराल्ल', ३. 'ति । अ' क. ख. पाठः. ४. 'का स', ५. 'स्य जा', ६. 'वविघ' ख. पाठः.